सुपर् एल् निनो प्रभावात् भारते ५५ सहस्रजनानां मरणशङ्का
नवदेहली> २०२६ तमे वर्षे आगमिष्यन् 'सुपर् एल् नीनो' (Super El Niño) प्रभावः भारते अत्यधिकं उष्णतातरङ्गं वातावरणपरिवर्तनं च जनयिष्यति इति एकस्मिन् वृत्तान्ते स्पष्टीकृतम्। 'क्लाइमेट् इम्पाक्ट् लाब्' (Climate Impact Lab) इत्यस्याः संस्थायाः अध्ययने एषा सूचना दत्ता अस्ति।
अस्य अध्ययनस्य अनुसारम्, अस्य प्रभावस्य तीव्रतया आगामि-मार्च्-मासाभ्यन्तरे भारते प्रायः ५५,००० जनानाम् उष्णतायाः कारणात् मृत्युः भवितुम् अर्हति। आगामिषु षट्सु मासेषु जगति ३.५ लक्षाधिकान् जनान् एषा उष्णता बाधिष्यते, यत्र भारतम् अत्यधिक-सङ्कटापन्नेषु देशेषु अन्यतमम् अस्ति।
अत्यधिक-तापमानेन बाह्यक्षेत्रेषु कार्यं कुर्वन्तः जनाः, शीतलीकरण-सुविधाहीनाः सामान्याः नागरिकाः च अधिकं सङ्कटं प्राप्स्यन्ति। अतः अस्याः वातावरण-विपदः निवारणाय पूर्वमेव सज्जता-सुरक्षा-उपायाः स्वीकरणीयाः इति एतेन अध्ययनेन सूच्यते।
.jpg)