OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 28, 2026

 सप्तदशवयस्केन चालितेन कार् यानघट्टनेन कुटुम्बनाथस्य मृत्युः। 

चत्वारः आरक्षकाधिकारिणः विलम्बिताः।

दुर्घटनाविधेयं यानं, मृतः जयबालकृष्णः च। 

# कार् यानस्य पञ्जीकरणं विलम्बिष्यते।

# १७ वयस्कस्य २५ तमवयः पर्यन्तम् अनुज्ञप्तिपत्रनिरासः।

# पितुः अतिरिक्तन्यायाधीशस्य उपरि अपराधः विहितः।

कोच्ची> नगरप्रान्ते सप्तदशवयस्केन कृते कार् यानदुर्घटनाविषये सर्वकारनिर्देशानुसारं आरक्षकविभागेन कर्कशप्रक्रमाः विधत्ताः। दुर्घटनायाः प्राथमिकान्वेषणे हानिरजायत इति उन्नताधिकारिणः प्रतिवेदनस्य आधारे चत्वारः आरक्षकाधिकारिणः निलम्बिताः। चेरानल्लूर् आरक्षकनिस्थानस्य CI, SHO, ASI, CPO पदीयाः सन्ति सेवायाः विलम्बिताः। 

  कार् यानस्य पञ्जीकरणं निरस्तुं प्रक्रमः यन्त्र वाहन विभागेन आरब्धः। तथा च १७ वयस्कः कुमारः तस्य २५ तमवयःपर्यन्तं चालनानुज्ञप्तिपत्रस्य निरासाय विहितः। 

  यदि अपक्ववयस्कः यन्त्रयानं प्रचाल्य दुर्घटनां कारयति तर्हि यानस्वामी रक्षिता वा अपराधी भविष्यतीति नियमानुसरणेन कुमारस्य पितुः अतिरिक्तन्यायाधिपस्य उपरि अपराधः विहितः। 

  अतीते रविवासरे प्रत्युषसि आसीत् दुर्घटना। माञ्ञालि निवासी जयबालकृष्णः आसीत् मृतः। आरक्षकाणां कृत्यविलोपे कुटुम्बस्य बहुजनस्यापि प्रक्षोभः एव कर्कशप्रक्रमानां प्रेरणा।