'बुरेवि' चक्रवातः न्यूनबला भूत्वा अतितीव्र-न्यूनमर्दवत् परिणिता।
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Thursday, December 3, 2020
आरक्षकालये प्रश्नकरणप्रकोष्टे च CCTV चित्रग्राही स्थापनीया - सर्वोच्चन्यायालयः।
नवदिल्ली> राष्ट्रस्य सर्वेषु आरक्षकालयेषु सि बि ऐ, एन् ऐ ए, इ डि आदीनां दोषान्वेषण दलानां प्रश्नकार्य-प्रकोष्टेषु CCTV चित्रग्राही स्थापनीया इति भारतस्य सर्वोच्च-न्यायालयेन आदिष्टा। रात्रिदृश्यान् तथा शब्दं च लेखनक्षमा चलनचित्रग्राही स्थापनीया। प्रश्नकरण-प्रकोष्टे अन्तर्जाल-विद्युत् बन्धः नास्ति चेत् सोऽपि स्थापनीयः इति सर्वकाराः न्यायालयेन आदिष्टाः। ग्रहीत चित्राणि १८ मासानियावात् दृश्यानि सुरक्षितरीत्या रक्षणीयनि इत्यपि न्यायालयेन आदिष्टाः।
Wednesday, December 2, 2020
चीनस्य चाङ् इ५ पेटकं चन्द्रात् मृत् स्वीकृत्य प्रत्यागमिष्यति।
चर्चा निष्फला - कर्षकान्दोलनमनुवर्तिष्यते।
नवदिल्ली> केन्द्रसर्वकारेण आविष्कृतान् कार्षिकनियमान् परिशोधयितुं समितिं रूपवत्कृत्य विषयपरिहाराय यतिष्यते इति सर्वकारस्य वाग्दानं कृषकसंघटनैः तिरस्कृतम्। त्रयोऽपि कार्षिकनियमाः प्रतिनिवर्तयितव्याः इत्यस्मिन् पदक्षेपे संघटनेषु स्थितेषु ह्यः सम्पन्ना चर्चा निष्फला जाता। सर्वकारस्य चायसत्कारं बहिष्कृतवन्तः कृषकनेतारः दिल्लीसीम्नि वर्तितं आन्दोलनस्थानं प्रतिनिवृत्ताः।गुरुवासरे पुनरपि चर्चां करिष्यतीति कृषिमन्त्रिणा नरेन्द्रसिंहतोमरेण निगदितम्।दिल्लीराज्यानन्तरं गुजरात्त राज्येणापि आर् टि पि सि आर् रोगनिर्णयाय शुल्कः न्यूनीकृतः।
विगते दिने दिल्ली सर्वकारेणापि आर् टि पि सि आर् रोगनिर्णयस्य शुल्कः ८०० इति न्यूनीकृतः आसीत्। पूर्वं २४०० रुप्यकाणि आसीत्। कोविड् रोगनिर्णयस्य शुल्कः ४०० इति न्यूनीकरणीयम् इति एका याचिका सर्वोच्च-न्यायालयसमक्षं स्वीकृता अस्ति। २०० रूप्यकाणि एव रोगनिर्णयस्य व्ययः किन्तु आराष्ट्रम् अनियत शुल्काः जनेभ्यः स्वीकुवन्ति।
जैनदर्शनस्य मूर्धन्यभूतः विद्वान् बनारसे स्थित पार्श्वनाथविद्यापीठस्य पूर्व निदेशकः राष्ट्रपतिपुरस्कारलब्धश्च
नवतिवर्षीयः डा.सागरमलजैनः कार्तिकपूर्णिमायाः दिवसे श्वेताम्बरसाधनापद्धतिमालक्ष्य संथारासमाधिं स्वीकृतवान्। एतेषां मार्गदर्शने पञ्चाशत् पर्यन्तं साधुभ्यः साध्वीभ्यः च विद्यावारिधिः इत्युपाधिः दत्तः वर्तते। डा. सागरमलजैनेन 70 पुस्तकानि अपि विरचितानि ।
Tuesday, December 1, 2020
कर्षकप्रक्षोभः - निरुपाधिकचर्चायै सर्वकारः।
नवदिल्ली> कर्षकान्दोलकैः सह उपाधिं विना चर्चां कर्तुं केन्द्रसर्वकारः सिद्ध अभवत्। प्रक्षोभकदलेषु अन्यतमस्य 'भारतीय किसान् यूणियन्' नामकदलस्य नेतारं जोगीन्द्र सिंहं इतरान् नेतृजनान् च गृहमन्त्री अमित् शाहः दूरवाणीद्वारा सम्बुद्ध्य चर्चासन्नद्धतां निगदितवान्। अद्य त्रिवादने चर्चां कर्तुं शक्यते इति कृषिमन्त्री नरेन्द्रसिंह तोमरः ह्यः रात्रौ कृषकदलनायकान् स्पष्टीकृतवान्। परन्तु संघटननायकाणां प्रत्युत्तरं न बहिरागतम्।एतदाभ्यन्तरे उत्तरप्रदेश-दिल्ली सीमायां गासियाबादे इतःपरं कृषकाः शिबिरमध्यासितवन्तः। दिल्ल्याः पञ्पापि सीमाः स्तम्भयिष्यन्ते इति संघटनानां प्रख्यापः। केन्द्रसर्वकारेण सर्वासु सीमाप्रदेशेषु अर्धसैनिकानपि विन्यस्य सुरक्षा शक्ता कृता।
प्रवासि-सम्मतिदायकेभ्यः अणुप्रेषद्वारा सम्मतिदानाय अवसरः - भारत-निर्वाचनायोगः।
Monday, November 30, 2020
ब्रह्मपुत्रनद्यां सेतुनिर्माणाय चीनः सज्जः। भारतस्य जल-वितरणे बाधा भविष्यति ?
Sunday, November 29, 2020
प्राणवायुः वार्धक्यरोधने प्रधानः अंशः भवति- इस्रायेलस्य वैज्ञानिकाः।
वार्धक्यः स्वाभविका प्रकृतिः भवति। चेदपि कस्मैरपि न रोचते इयम् अवस्था। इस्रायेलस्य वैज्ञानिकाः नूतनम् अध्ययनं कृत्वा प्रमाणीक्रियते यत् ओक्सिजनम् (Oxygen) उपयुज्य क्रियमाणान् चिकित्सावविधीन् एव वैज्ञानिकाः अकुर्वन्। टेल् अवीव् विश्व-विद्यालयस्य तथा षेमीर औषधकेद्रस्य च वैज्ञानिकानां इदं प्रत्यभिज्ञानं नवम्बर् १८ दिनाङ्के एजिङ् मासिकायां प्रकाशितम्। ओक्सिजनस्य अधिक सम्मर्देन सज्जीकृते प्रकोष्ठे कोशेभ्यः संशुद्धं ओक्सिजनम् दत्वा असीत् प्राथमिकपरीक्षणम् ।