OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 2, 2020

 दिल्लीराज्यानन्तरं गुजरात्त राज्येणापि आर् टि पि सि आर् रोगनिर्णयाय शुल्कः न्यूनीकृतः।

   गान्धीनगरम्> कोविड् आर् टि पि सि आर् रोगनिर्णयस्य शुल्कः गुजरात सर्वकारेण अपि न्यूनीकृतः। नूतनशुल्कः ८०० रूप्यकाणि एव। पूर्वं १५०० - २००० रूप्यकाणि यावत् गुजरातस्य निजीय रोगनिर्णय संस्थया स्वीकृतानि आसन्। शुल्कस्य न्यूनीकरणं गुजरातस्य उपमुख्य-मन्त्रिणा निधिन् भायि पटेलेन प्रख्यापितम्। रोगिणाम् आमन्त्रणानुसारं गृहं गत्वा रोगनिर्णयं क्रियते चेत् ११०० रूप्यकाणि दातव्यानि। नूतनशुल्कव्यवस्था मङ्गल-वासरादारभ्य प्रबला जाता।

     विगते दिने दिल्ली सर्वकारेणापि आर् टि पि सि आर् रोगनिर्णयस्य शुल्कः ८०० इति न्यूनीकृतः आसीत्। पूर्वं २४०० रुप्यकाणि आसीत्। कोविड् रोगनिर्णयस्य शुल्कः ४०० इति न्यूनीकरणीयम् इति एका याचिका सर्वोच्च-न्यायालयसमक्षं स्वीकृता अस्ति। २०० रूप्यकाणि एव रोगनिर्णयस्य व्ययः किन्तु आराष्ट्रम् अनियत शुल्काः जनेभ्यः स्वीकुवन्ति।