OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 2, 2020

 चर्चा निष्फला - कर्षकान्दोलनमनुवर्तिष्यते।

    नवदिल्ली> केन्द्रसर्वकारेण आविष्कृतान् कार्षिकनियमान् परिशोधयितुं समितिं रूपवत्कृत्य विषयपरिहाराय यतिष्यते इति सर्वकारस्य वाग्दानं कृषकसंघटनैः तिरस्कृतम्। त्रयोऽपि कार्षिकनियमाः प्रतिनिवर्तयितव्याः इत्यस्मिन् पदक्षेपे संघटनेषु स्थितेषु ह्यः सम्पन्ना चर्चा निष्फला जाता। सर्वकारस्य चायसत्कारं बहिष्कृतवन्तः कृषकनेतारः दिल्लीसीम्नि वर्तितं आन्दोलनस्थानं प्रतिनिवृत्ताः।गुरुवासरे पुनरपि चर्चां करिष्यतीति कृषिमन्त्रिणा नरेन्द्रसिंहतोमरेण निगदितम्।