चर्चा निष्फला - कर्षकान्दोलनमनुवर्तिष्यते।
नवदिल्ली> केन्द्रसर्वकारेण आविष्कृतान् कार्षिकनियमान् परिशोधयितुं समितिं रूपवत्कृत्य विषयपरिहाराय यतिष्यते इति सर्वकारस्य वाग्दानं कृषकसंघटनैः तिरस्कृतम्। त्रयोऽपि कार्षिकनियमाः प्रतिनिवर्तयितव्याः इत्यस्मिन् पदक्षेपे संघटनेषु स्थितेषु ह्यः सम्पन्ना चर्चा निष्फला जाता। सर्वकारस्य चायसत्कारं बहिष्कृतवन्तः कृषकनेतारः दिल्लीसीम्नि वर्तितं आन्दोलनस्थानं प्रतिनिवृत्ताः।गुरुवासरे पुनरपि चर्चां करिष्यतीति कृषिमन्त्रिणा नरेन्द्रसिंहतोमरेण निगदितम्।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Wednesday, December 2, 2020
दिल्लीराज्यानन्तरं गुजरात्त राज्येणापि आर् टि पि सि आर् रोगनिर्णयाय शुल्कः न्यूनीकृतः।
विगते दिने दिल्ली सर्वकारेणापि आर् टि पि सि आर् रोगनिर्णयस्य शुल्कः ८०० इति न्यूनीकृतः आसीत्। पूर्वं २४०० रुप्यकाणि आसीत्। कोविड् रोगनिर्णयस्य शुल्कः ४०० इति न्यूनीकरणीयम् इति एका याचिका सर्वोच्च-न्यायालयसमक्षं स्वीकृता अस्ति। २०० रूप्यकाणि एव रोगनिर्णयस्य व्ययः किन्तु आराष्ट्रम् अनियत शुल्काः जनेभ्यः स्वीकुवन्ति।
जैनदर्शनस्य मूर्धन्यभूतः विद्वान् बनारसे स्थित पार्श्वनाथविद्यापीठस्य पूर्व निदेशकः राष्ट्रपतिपुरस्कारलब्धश्च
नवतिवर्षीयः डा.सागरमलजैनः कार्तिकपूर्णिमायाः दिवसे श्वेताम्बरसाधनापद्धतिमालक्ष्य संथारासमाधिं स्वीकृतवान्। एतेषां मार्गदर्शने पञ्चाशत् पर्यन्तं साधुभ्यः साध्वीभ्यः च विद्यावारिधिः इत्युपाधिः दत्तः वर्तते। डा. सागरमलजैनेन 70 पुस्तकानि अपि विरचितानि ।
Tuesday, December 1, 2020
कर्षकप्रक्षोभः - निरुपाधिकचर्चायै सर्वकारः।
नवदिल्ली> कर्षकान्दोलकैः सह उपाधिं विना चर्चां कर्तुं केन्द्रसर्वकारः सिद्ध अभवत्। प्रक्षोभकदलेषु अन्यतमस्य 'भारतीय किसान् यूणियन्' नामकदलस्य नेतारं जोगीन्द्र सिंहं इतरान् नेतृजनान् च गृहमन्त्री अमित् शाहः दूरवाणीद्वारा सम्बुद्ध्य चर्चासन्नद्धतां निगदितवान्। अद्य त्रिवादने चर्चां कर्तुं शक्यते इति कृषिमन्त्री नरेन्द्रसिंह तोमरः ह्यः रात्रौ कृषकदलनायकान् स्पष्टीकृतवान्। परन्तु संघटननायकाणां प्रत्युत्तरं न बहिरागतम्।एतदाभ्यन्तरे उत्तरप्रदेश-दिल्ली सीमायां गासियाबादे इतःपरं कृषकाः शिबिरमध्यासितवन्तः। दिल्ल्याः पञ्पापि सीमाः स्तम्भयिष्यन्ते इति संघटनानां प्रख्यापः। केन्द्रसर्वकारेण सर्वासु सीमाप्रदेशेषु अर्धसैनिकानपि विन्यस्य सुरक्षा शक्ता कृता।
प्रवासि-सम्मतिदायकेभ्यः अणुप्रेषद्वारा सम्मतिदानाय अवसरः - भारत-निर्वाचनायोगः।
Monday, November 30, 2020
ब्रह्मपुत्रनद्यां सेतुनिर्माणाय चीनः सज्जः। भारतस्य जल-वितरणे बाधा भविष्यति ?
Sunday, November 29, 2020
प्राणवायुः वार्धक्यरोधने प्रधानः अंशः भवति- इस्रायेलस्य वैज्ञानिकाः।
वार्धक्यः स्वाभविका प्रकृतिः भवति। चेदपि कस्मैरपि न रोचते इयम् अवस्था। इस्रायेलस्य वैज्ञानिकाः नूतनम् अध्ययनं कृत्वा प्रमाणीक्रियते यत् ओक्सिजनम् (Oxygen) उपयुज्य क्रियमाणान् चिकित्सावविधीन् एव वैज्ञानिकाः अकुर्वन्। टेल् अवीव् विश्व-विद्यालयस्य तथा षेमीर औषधकेद्रस्य च वैज्ञानिकानां इदं प्रत्यभिज्ञानं नवम्बर् १८ दिनाङ्के एजिङ् मासिकायां प्रकाशितम्। ओक्सिजनस्य अधिक सम्मर्देन सज्जीकृते प्रकोष्ठे कोशेभ्यः संशुद्धं ओक्सिजनम् दत्वा असीत् प्राथमिकपरीक्षणम् ।
Saturday, November 28, 2020
Friday, November 27, 2020
निवारचक्रवातः - मरणानि त्रीणि; २.२७लक्षं जनाः सुरक्षितस्थानं नीताः।
चेन्नै> तमिल्नाट्राज्ये गतदिने प्रवृत्तेन निवारचक्रवातेन त्रयः जनाः मृताः। राज्यस्य औत्तरजनपदेषु व्यापकरीत्या कृषिनाशः अभवत्। जलोपप्लव-साध्यताप्रदेशेभ्यः २.२७ लक्षं जनाः सुरक्षितस्थानं नीताः।
१०१ गृहाणि विशीर्णानि। भूतलं प्राप्य अतितीव्रचक्रवातः दुर्बलं भूत्वा आन्ध्रप्रदेशं प्रविष्टः। चेन्नै विमाननिलयस्य प्रवर्तनं ह्यः पुनरारब्धम्।
Thursday, November 26, 2020
न्यूसिलान्टस्य प्रतिनिधिसभायां
भारतवंशजः संस्कृतेन शपथग्रहणं कृत्वा इतिहासम् अलिखत्।
वेल्लिङ्टण्> भरतवंशजः डो. गौरवशर्मा न्यूसिलान्टस्य प्रतिनिधिसभायां
संस्कृतेन शपथग्रहणं कृत्वा इतिहासम् रचितवान्। हिमाचल् प्रदेशस्य हमिर्पुरं मूल स्थानभूतः भवति। एष: हमिल्टण् वेस्टिल्तः 'लेबर् पार्टी' स्थानाशित्वेन विजयीभूतः। बुधवासरे आसीत् अस्य शपथग्रहण-समारोहः। न्यूसिलान्ट् प्रतिनिधिसभायां निवाचितेषु न्यूनवयस्कः भवति एषः। एष: गौरव् शर्मा न्यूसिलान्टस्य मावोरी इति प्रादेशिकभाषायां तदनन्तरं पौराकायां संस्कृतभाषायां च शपथग्रहणं कृतवान् ।
किमर्थं भारतस्य प्राशासनिकभाषां हिन्दीं शपथग्रहणाय न स्वीकृतः इत्यस्य प्रश्नस्य सौरवशर्मा सविनयम् उत्तरं दत्तवान्।
'विषयमधिकृत्य बहु चिन्तितवान्। मम प्राथमिक भाषा भवतः पहारि पञ्चाबि च। सर्वान् तोषयितुं क्लेशः भवति। अतः सर्वैः समादृता संस्कृतभाषा एव मया स्वीकृता इति गौरवेण ट्वीट् कृतम्।
ट्रम्पः पराजयं अङ्गीकृतवान्। शासनस्य हस्तान्तरीकरणाय प्रक्रमाः समारब्धाः।
वाषिङ्टण्> अमिरिकस्य राष्ट्रपतिनिर्वाचने ट्रम्पः पराजयं अङ्गीकृतवान्। अपि च नियुक्त राष्ट्रपतये जोबैडनाय राष्ट्रस्य शासनस्य हस्तान्तरीकरणाय प्रक्रमान् समारब्धुं 'वैट् हौस्' वृन्देभ्यः आदेशं दत्तवान् इति सः 'ट्वीट्' कृतवान्। अनुबन्ध प्रवर्तनाय बैडनस्य कार्यालयाय ६३ लक्षं डोलर् धनं च प्रदत्तवान्।Wednesday, November 25, 2020
पादकन्दुकप्रभुः डीगो मरडोणः निर्यातः।
संस्कृतं जनभाषा भवेत् आमुखपटलसमूहेन संस्कृत बालगीत प्रतियोगिताया: आयोजनम्
Tuesday, November 24, 2020
IMA आयुर्वेदं निराकरोति - विश्व आयुर्वेदपरिषद्
नवदिल्ली> आयुर्वेदभिषग्वरेभ्यः शल्यचिकित्सायैः अनुज्ञा विधास्यति इत्यनेन 'अलोपति' वैद्यानां सङ्घटनेन (ऐ. एम्. ए.) विप्रतिपत्तिः प्रकाशिता आसीत्। आयुर्वेदं भरतीयं अन्यम् औषधविज्ञानान् च विरुद्ध्य IMA सङ्घटनम् सदाकालम् अनृतप्रचारेषु व्यापृतं वर्तते इति विश्वायुर्वेदपरिषदः अखिलभारतीय-सचिवः डा. नितिन् अग्रवालः खेदं प्रकाशितवान्। अयुर्वेदौषधानां औषधसस्यानां च प्रयोजनान् अधिकृत्य वैज्ञानिक-प्रमाणानवलंम्ब्य वस्तुनिष्ठावलोकनं विना एते जनानां मनसि अविश्वासं जनयन्ति अनृतं प्रसारयन्ति च। आयुर्वेदस्य सार्वजनिक-स्वीकार्यतायाः एते बिभ्रेन्ति इति च नितिन् अग्रवालः सम्प्रतिवार्तां प्रति अवदत्। जनेभ्यः आयुर्वेदात् प्रयोजनं लभते चेत् रोगग्रस्तान् धनागमोपकरणम् इति मन्वानः औषधव्यवसायिनः वृथा न तिष्ठन्तः इति सामान्यजनाः अपि जानन्ति इति च तेनोक्तम्।
असमस्य भूतपूर्वमुख्यमन्त्री तरुण गोगोयः निर्यातः।
गुहावती> कोविड्मुक्त्यनन्तरम् अनुबन्धरोगैः प्रपीड्य परिचर्यायां वर्तितः असमराज्यस्य भूतपूर्वः मुख्यमन्त्री तथा वरिष्ठः कोण्ग्रस्दलस्य नेता तरुण गोगोयः [८४] दिवंगतः। सोमवासरे सायं ५.३४ वादने गुहावतीस्थे चिकित्सालये आसीत् तस्यान्त्यम्।
२००१ तमादारभ्य २०१६ पर्यन्तं त्रिवारं असमस्य मुख्यमन्त्री आसीत्। द्विवारं केन्द्रमन्त्रिपदमलङ्कृतवान्।
Monday, November 23, 2020
आयुर्वेदभिषग्वरेभ्यः शल्यचिकित्सायैः अनुज्ञा। ऐ. एम्. ए. विप्रतिपत्तिः प्रकाशिता।
Sunday, November 22, 2020
जेय्षे भीकराक्रणप्रकल्पनं - पागधिकारिणमाहूय प्रतिषेधमादिशत्।
नवदिल्ली> भारते आक्रमणाय प्रकल्पितवतां भीकराणां वधानन्तरं पाकिस्थानस्य स्थानपतिप्रतिनिधिम् आहूय भारतं प्रतिषेधं प्राकाशयत्।
पाकिस्तानीयास्थानत्वेन प्रवर्तमानस्य जेय्षे भीकरसंघनस्य अनुयायिन एव हताः इति निर्णीतमासीत्। मृतदेहेभ्यः एतदुपस्थापयितुमावश्यकानि प्रमाणानि लब्धानि। भीकराणां कृते दीयमानं साहाय्यं समाप्तव्यमिति विदेशमन्त्रालयेन पाकिस्थानस्य अधिकारिणं प्रति आदिष्टम्।