OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, May 6, 2025

 संस्कृतं समेषां भारतीयभाषाणां जननी - अमित शाहः। 

संस्कृतभारत्याः नेतृत्वे १००८ संस्कृतसम्भाषण शिबिराणि सम्पन्नानि। 

सम्भाषणशिबिराणां समाप्तिसमारोहे उद्घाटनभाषणं कुर्वन् अमित शाहः ।

नवदिल्ली> भारतस्य गृहमन्त्री अमित शाहः प्रोक्तवान् यत् संस्कृतभाषा प्रायेण समेषां भारतीयभाषाणां जननी भवति। दिल्ली विश्वविद्यालयस्य उत्तरपरिसरे संस्कृतभारत्या समायोजितस्य संस्कृतसम्भाषणशिबिरस्य समाप्तिसमारोहम् उद्घाटयन्  भाषमाणः आसीदयम्। यावत् संस्कृतं शक्तिमत् भविष्यति तावत् एकैका भारतीयभाषा प्रादेशिकभाषा च शक्तिमती भविष्यतीति तेन अनुप्रोक्तम्।

 भारत्याः विपुलं ज्ञानभण्डागारमधिकृत्य शाहमहेदयेन संस्मारितम्। योगः, गणितं, परिस्थिति विज्ञानं, व्याकरणम् इत्यादिषु संस्कृतस्य योगदानमनुत्तममिति तेनोक्तम्। 

  वस्तुतया संस्कृतमेवास्माकं मातृभाषा इति समारोहे विशिष्टातिथिरूपेण भागं कृतवती दिल्लीमुख्यमन्त्रिणी रेखा गुप्ता अवोचत्। संस्कृतस्य विज्ञानभण्डागारः अस्मान् विश्वगुरुं कर्तुं प्रभावशाली इति तया प्रोक्तम्। 

  संस्कृतभारत्याः नेतृत्वे दिल्लिविश्वविद्यालयस्य उत्तरपरिसरं केन्द्रीकृत्य १००८ संभाषणशिबिराणि प्रचालितानि यैः २५,००० सामान्यजनाः संस्कृतसंभाषणे प्रभवाः जाताः।