OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 5, 2025

 केरलस्य 'साक्षरताप्रवर्तका' पद्मश्रीसम्मानिता च के वि राबिया दिवंगता। 


मलप्पुरं> स्वजीवनं सहनस्य सामाजिकसेवायाश्च पर्यायरूपेण कृतवती साक्षरता-सामाजिकक्षेमप्रवर्तका के वि राबिया दिवं गता। ५९ वयस्का सा अर्बुदरोगहेतुना परिचर्यायाम्  आसीत्। बाल्यादारभ्य चक्रयुतासन्दे आसीत् तस्याः जीवनम्। 

 नवमकक्ष्यायां पठितवत्यां शरीरे उच्छोषिते मनस्स्थैर्येण जीवितविजयं प्राप्तवती। चक्राकारम् आसन्दमधिष्ठाप्य  अध्ययनादिकं निर्वक्ष्य बिरुदानन्तरबिरुदं सम्पादितवती। चक्रासन्देन चरन्ती १९९० तः केरलस्य साक्षरतान्दोलने भागं स्वीकृत्य दशशः निरक्षरान् जनान् वाचनस्य लेखनस्य च मार्गेण सञ्चाल्य विज्ञानप्रकाशमानीतवती। अन्येषु सामाजिकक्षेमप्रवर्तनेषु निस्स्वार्थसेवां प्रदाय सक्रिया अभवत्। 

  अचञ्चलमात्मविश्वासं पुरस्कृत्य २०२२ तमे वर्षे राष्ट्रस्य पद्मश्रीपुरस्कारेण राबियावर्या समादृता। नेहरु युवकेन्द्रपुरस्कारः, साक्षरतामिषन् पुरस्कारः, राष्ट्रिय युवजनपुरस्कारः, केन्द्रसर्वकारस्य महिलाशक्ति  पुरस्कारः इत्यादयः पुरस्काराः तया सम्प्राप्ताः। ३२ तमे वयसि अर्बुदरोगबाधिता सा निर्भयेन जीवितम् अग्रमनयत्। 

  बहवः प्रमुखाः तस्याः वियोगे अनुशोचितवन्तः। तिरूरङ्ङाटि स्थाने वर्तमाने आराधनालयस्थे श्मशाने  तस्याः शरीरं संस्कृतम्।