नूतनमार्पापा
वरिष्ठपुरोहितानां गूढपरिषत् [Conclave] अद्य आरभ्यते।
भारतात् चत्वारः वैदिकश्रेष्ठाः।
वत्तिक्कानं> स्वर्गीयस्य फ्रान्सिस् मार्पापावर्यस्य अनुगामिनम् अधिगन्तुं ६९ राष्ट्रेभ्यः १३३ 'कर्दिनाल्' पदीयानां वरिष्ठपुरोहितानां गूढपरिषत् [conclave]अद्य आरभ्यते। तदर्थं वत्तिक्काने सिस्टैन् चाप्पल् देवालयः सज्जः अभवत्। प्रादेशिकसमयानुसारं सायं ४. ३० वादने [भारतीयसमयः रात्रौ ८ वादने] परिषदारभ्यते।
न्यूनाशीतिवयस्काः १३३ कर्दिनालपदीयाः गुप्तपरिषदि भागं करिष्यन्ति। तेषु भारतात् चत्वारः कर्दिनालाः सन्ति।