OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 3, 2025

 ५३ संवत्सरेभ्यः पूर्वं विक्षिप्तस्य बहिराकाशवाहनस्य अंशः पृथ्वीम् उत्पतति। 

'कोस्मोस् ४८२' इत्यस्य अवतरणविभागः।

ए ऐ साह्येन चित्रितं कोस्मोस् ४८२ इति पेटकम्। 

 

फ्लोरिडा> १९७२ तमे वर्षे सोवियट् यूणियन् राष्ट्रेण शुक्रग्रहस्य पर्यवेषणाय विक्षिप्तस्य बहिराकाशपेटकस्य कश्चिदंशः बहिराकाशात् विसृष्टः सन् भूमिं प्रत्यागच्छतीति शास्त्रज्ञैः निगदितम्। मेमासस्य दशमे दिने एषः भूमेरन्तरिक्षं प्रवेक्ष्यतीति सूच्यते। तस्मिन् समये अन्यथा किमपि न भविष्यति तर्हि होरायां २४२ कि मी इति शीघ्रगत्या अयंपेटकांशः लोहखण्डः भूमौ निपतिष्यति। लण्टन-दक्षिणामेरिकयोर्मध्ये यत्रकुत्रापि पतितुं सम्भावना विद्यते। 

   सोवियट् यूणियन् राष्ट्रस्य शुक्रग्रहपर्यवेषणदौत्यस्य अंशतया विक्षिप्तस्य  कोस्मोस् ४८२' इत्यस्य उत्तरणांश एव भूमिं प्रत्यागच्छति। किन्तु इदं दौत्यं पराजितमासीत्। १९७९ तमे वर्षे आविश्वं सूच्यग्रे प्रतिष्ठितस्य 'स्कैलाब्' पेटकस्य स्मरणां जनयति अयं पेटकांशः।