OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 4, 2025

 दृश्यफलकस्य अनुस्यूतावलोकनेन देशस्थानां बालकेषु ५०% बालकेभ्यः हृस्वदृष्ट्यवस्थायाः सम्भावना।

चित्रं meta AI

   अत्यधिकं कालं अन्तर्जाल-पटलदर्शनेन कालयापनं कर्तुं अद्यतनबालकेभ्यः उत्साहः दृश्यते। एषः तेषां स्वास्थ्ये प्रतिकूलप्रभावं जनयति। 

    अतिपुष्टता, हृदयरोगः, मधुमेहः (विभागः-२) इत्येतेषां रोगाणां कारणत्वेन अयं स्वभावविशेषः एव इति पूर्वमेव वेदितः। किन्तु अधुना हृस्वदृष्टिः इत्यस्याः अवस्थायाः कारणम् अयमेव इति नवीनं ज्ञानं विशेषज्ञाः प्रकाशयन्ति।

   असोसियेषन् ओफ् कम्यूणिट्टी ओप्ताल्मोलजिस्ट् ओफ् इन्ट्या इत्यस्य वैद्याः एव विषयेऽस्मिन् अनुसन्धानं कृतवन्तः।

दृश्यफलकः - Screen