दृश्यफलकस्य अनुस्यूतावलोकनेन देशस्थानां बालकेषु ५०% बालकेभ्यः हृस्वदृष्ट्यवस्थायाः सम्भावना।चित्रं meta AI
अत्यधिकं कालं अन्तर्जाल-पटलदर्शनेन कालयापनं कर्तुं अद्यतनबालकेभ्यः उत्साहः दृश्यते। एषः तेषां स्वास्थ्ये प्रतिकूलप्रभावं जनयति।
अतिपुष्टता, हृदयरोगः, मधुमेहः (विभागः-२) इत्येतेषां रोगाणां कारणत्वेन अयं स्वभावविशेषः एव इति पूर्वमेव वेदितः। किन्तु अधुना हृस्वदृष्टिः इत्यस्याः अवस्थायाः कारणम् अयमेव इति नवीनं ज्ञानं विशेषज्ञाः प्रकाशयन्ति।
असोसियेषन् ओफ् कम्यूणिट्टी ओप्ताल्मोलजिस्ट् ओफ् इन्ट्या इत्यस्य वैद्याः एव विषयेऽस्मिन् अनुसन्धानं कृतवन्तः।
दृश्यफलकः - Screen