OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 8, 2025

 'सिन्दूरं' भारतस्य सन्देशः। 

वार्ताहरसम्मेलनं कृतवत्यौ विङ् कमान्टर् व्योमिका सिंहः केणल् सोफिया खुरेषी च। 

नवदिल्ली> सिन्दूरम् इति कृतनामधेयः भारतस्य सैनिकप्रक्रमः भीकरतां विरुध्य राष्ट्रस्य सूक्ष्मतया विधत्तः सन्देशः भवति। पहल्गामभीकराक्रमणस्य प्रतिप्रहरस्य ओपरेशन् सिन्दूर् इति नाम्नि आक्रमणे हतपुरुषाणां विधवाभ्यः समर्पिता इयम् आदराञ्जलिः। भीकरैः निर्माजितानां २६ सिन्दूरतिलकानां प्रत्युत्तरम्! 

  वार्ताहरसम्मेलने विदेशकार्यसचिवेन सह सेनाप्रक्रमान् अधिकृत्य विवरणं दत्तवत्यौ  द्वे महिले - केणल् सोफिया खुरेषी तथा  विङ् कमान्डर् व्योमिका सिंहश्च विनष्टप्राणानां पत्नीनां कृते समर्पितादररूपेण श्लाख्येते।