OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 1, 2025

 विष़िञ्ञं अभियोजना श्वः राष्ट्राय समर्पयिष्यते।


अनन्तपुरी> केरलस्य विकासोद्गमनाय कारणभूता विष़िञ्ञं वाणिज्यमहानौकाश्रयाभियोजना श्वः  प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पयिष्यते। शुक्रवासरे प्रभाते एकादशवादने अन्ताराष्ट्र महानौकाश्रयस्य औद्योगिकमुद्घाटनमेव प्रधानमन्त्रिणा निर्वक्ष्यते। एतावदाभ्यन्तरे महानौकाश्रयस्य प्रवर्तनं सम्पूर्णतया आरब्धमस्ति। 

  अद्य सायं अनन्तपुरीं प्राप्तवान् प्रधानमन्त्री राजभवने उषित्वा श्वः प्रभाते १०. ३० वादने विष़िञ्ञं प्राप्स्यति। ततः 'एम् एस् सि सेलस्टिनो' नामिकां मातृमहानौकां स्वीकरिष्यति। अनन्तरं महानौकाश्रयं सम्पूर्णं सन्दर्श्य उद्घाटनसमारोहे भागं करिष्यति। मुख्यमन्त्री,राज्यपालः, केन्द्र महानौकाश्रयमन्त्री, केरलीयाः केन्द्रमन्त्रिणः इत्यादयः समारोहेSस्मिन् भागं स्वीकरिष्यन्ति।