OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 3, 2025

 विष़िञ्ञं वाणिज्यमहानौकाश्रयं विश्वस्मै समार्पयत्। 

विषिञ्ञं अन्ताराष्ट्रनौकाश्रयं विश्वस्मै प्रधानमन्त्री नरेन्द्रमोदी समर्पयति।
अन्ताराष्ट्र समुद्रव्यापारमण्डले विष़िञ्ञं विश्वस्य केन्द्ररूपेण भविष्यतीति प्रधानमन्त्री। 

विष़िञ्ञम् [अनन्तपुरी]> ह्यः केरलस्य स्वप्नसाफल्यस्य दिनम्। राज्यस्य तथा राष्ट्रस्यापि विकासमुखत्वेन  भविष्यमाणः अन्ताराष्ट्र वाणिज्यमहानौकाश्रयः प्रौढगम्भीरे समारोहे राष्ट्राय विश्वस्मै च समर्पितः। शुक्रवासरे प्रभाते एकादशवादने प्रधानमन्त्री नरेन्द्रमोदी नौकाश्रयपरिसरे सज्जीकृतायां वेदिकायां पूर्णतया सुसज्जस्य नौकाश्रयस्य औद्योगिकमुद्घाटनं निरवहत्। 

  अन्ताराष्ट्र समुद्रव्यापारमण्डले विष़िञ्ञं नौकाश्रयः विश्वस्य केन्द्ररूपेण भविष्यतीति प्रधानमन्त्री प्रोक्तवान्। एतदर्थं राज्यप्रशासनेन सह सर्वात्मना यतिष्यते इति च तेन प्रोक्तम्। मुख्यमन्त्री पिणरायि विजयः अध्यक्षः अभवत्। राज्यपालः राजेन्द्र आर्लेकरः मुख्यातिथिरासीत्। 

  नौकाश्रयविभागस्य मन्त्री वि एन् वासवः, केन्द्रमन्त्रिणौ  जोर्ज् कुर्यः, सुरेष् गोपिः, जनप्रतिनिधी शशि तरूरः (लोकसभा), एम् विन्सेन्ट् (विधानसभा), अदानी ग्रूप् इत्यस्य अध्यक्षः गौतम अदानी इत्येते वेदिकायामुपविष्टाः आसन्।