अयोध्यायां रामपथे मांसमद्यानां विक्रयः निरुद्धः।
अयोध्या> अयोध्या - फैसाबाद नगरद्वयं संयुज्यमानस्य रामपथनामकस्य सुप्रधानमार्गस्य १४ कि मी दूरपरिधौ मदिरामांसानां विक्रयं निरुध्य अयोध्यानगरसभायाः आदेशः बहिरागतः। 'पान्, गुड्का, बीडी, सिगार' इत्यादि प्रादेशिकनाम्नि कथ्यमानानां धूम-चर्वणाद्युन्मादकवस्तूनां प्रख्यातिविज्ञप्तिरपि [publicity] निरुद्धः।
नगरस्य आत्मीयवातावतरणं सुस्थापनीयमिति अस्य लक्ष्यम्। चिरकालं यावदेव अयोध्यायां मद्यमांसादीनां विक्रयः नास्त्येव।