OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 8, 2025

 सिन्दूर शस्त्रप्रक्रमेण पाकिस्थानं  प्रकम्पितम्।

प्रत्याक्रमणेन पाकिस्थानस्य प्रकोपः, वीरवादः। 

एकः भटः वीरमृत्युं प्राप। 

नवदिल्ली> ओपरेषन् सिन्दूर् इति भारतस्य प्रतिप्रहरात् भयचकितं पाकिस्थानं प्रत्युषसि भारतं विरुद्ध्य षेल् नामकास्त्रस्य वर्षम् अकरोत्। पूञ्च् , रजौरि मण्डलेषु आसीत् षेल् शस्त्राक्रमणम्।

  भारतसेनायाः लान्स् नायिक् पदीयः दिनेष् कुमारः  वीरमृत्युं प्राप। अन्यः कश्चन सैनिकः तीव्रक्षतेन आतुरालयं प्राविशत्। पाकिस्थानस्य आक्रमणे १५ प्रदेशवासिनः जनाः हताः। 

 एतदन्तरे भारतं प्रति प्रतिप्रहरं करिष्यतीति  पाकिस्थानस्य प्रधानमन्त्री वीरवादं घोषितवान्।