OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 1, 2025

 अद्य विश्वश्रमिकदिनम्। 


कोच्ची> मेय् १ विश्वश्रमिकदिनत्वेन लोके सर्वत्र आमन्यते। इदानीन्तनकाले सामान्यजनैः अनुभूयमानाः प्रयेण सर्वे जनाधिपत्याधिकाराः संघटितश्रमिकवर्गस्य प्रयत्नफलेन जाताः। साप्ताहिकविरामदिवसः, अष्ट होराणां वृत्तिः, प्रौढजीवनावश्यकं वेतनं, स्वास्थ्यपरिरक्षानिगमः, सार्वत्रिकमतदानाधिकारः इत्यादीनि तेषु कानिचन भवन्ति। 

  अस्मिन् प्रकरणे अवधेयास्पदं यत् विश्वस्मिन् यत्रकुत्रापि न केवलं सामान्यजनानाम् अपि तु सम्पन्नवर्गस्यापि दैनन्दिनजीवनं श्रमिकाणां प्रयत्नफलाश्रितं भवति। भारतस्य अवस्थापि तादृशी। कार्षिक-निर्माण-स्वास्थ्य-स्वच्छताद्येषु मण्डलेषु वृत्तिं कुर्वतां कर्मकराणां सेवा निस्तुला वर्तते। सर्वेभ्यः श्रमिकेभ्यः 'सम्प्रतिवार्तायाः' मेय् दिनस्य शुभाशंसाः।