OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, May 7, 2025

 भीकरतां विरुध्य राष्ट्रस्य  प्रतिप्रहरः। 

'ओपरेशन् सिन्दूर्' - पाकिस्थानस्य भीकरकेन्द्रेषु भारतस्य शस्त्रोपचारः। 

+ २५ निमिषाः, ९  केन्द्राणि, ७० मरणानि। 

+ विशीर्णेषु भीकरपरिशीलनकेन्द्रेषु एकं 

बिन् लादनेन निर्मितम्। 

नवदिल्ली> पहल्गामभीकराक्रमणस्य १५ तमे दिने पाकिस्थानं प्रति भारतसैन्यस्य मर्मभेदकं प्रत्युत्तरम्। अद्य प्रत्युषसि १. ०५ वादनतः १. ३० वादनपर्यन्तं दीर्घिते सैनिकप्रक्रमे पाकिस्थानस्य काश्मीरस्थानि भीकराणां ९ परिशीलनकेन्द्राणि विनाशितानि। जनवासक्षेत्राणि अपनीय, केवलं भीकरशिबिराणि लक्ष्यीकृत्य कृते 'ओपरेशन् सिन्दूर्' इति कृतनामधेये शस्त्रप्रहरे ७० भीकराः हताः इति सेनाधिकारिभिः निगदितम्। 

  सैनिकप्रक्रमानन्तरम् आकारिते वार्ताहरसम्मेलने उपग्रहचित्राणां साह्येन प्रमाणैः सहितमासीत् सैन्याधिकारिणः उपस्थापनम्।