OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 5, 2025

 'तृशूर् पूरम्' उत्सवः श्वः। 

तृशूर्> दक्षिणभारते सुप्रसिद्धः 'तृशूर् पूरम्' इत्युत्सवः कुजवासरे विधास्यति। श्वः प्रातरारभ्य केरलीयाः केरले विनोदपर्यटनार्थं प्राप्तवन्तः विदेशीयाः च पूरनगरी इति प्रसिद्धं तृशूरस्थंं वटक्कुन्नाथमन्दिराङ्कणं  प्रवक्ष्यन्ति।

  श्वः दशवादनतः शताधिके वाद्यकाराः भागमूढ्यमानं पञ्चवाद्यादिकं वाद्यकलारूपं वादयन्ति। तदनन्तरं सायं चतुर्वादनतः 'कुटमाट्टं' नामकं नानावर्णोपेतछत्राणां परिवर्तनं सम्पत्स्यते। छत्रपरिवर्तनं तिरुवम्पाटि, पारमेक्काव् इति मन्दिरद्वयस्य नेतृत्वे ।.               नेतृत्वे एकैकस्मिन् पक्षे पञ्चदशगजवीराः प्रत्यभिमुखं तिष्टन्तः आनन्दोत्सवाय भिन्नवर्णछत्रप्रदर्शनं किल पर्वायते ।   ततः प्रत्युषसि नयनानन्दकरं स्फोटोत्सवश्च  सम्पत्स्यते।