ऊन१९ - एष्या चषकक्रिकट्।
पाकिस्थानं पराजित्य भारतं पूर्वान्त्यचक्रे।
अबुदाबी> ऊननवदशवयस्कानाम् एष्या चषकक्रिकट् स्पर्धायाः चतुर्थांशे प्रतिद्वन्द्वे पाकिस्थानदलं ९० धावनाङ्कैः पराजित्य भारतं पूर्वान्त्यचक्रं प्राविशत्। प्रवासिकेरलीयः आरोण् जोर्ज् इत्यस्य वैभवपूर्णं कन्दुकताडनं, दीपेष् देवेन्द्रस्य आग्नेयकं कन्दुकक्षेपणं, कनिष्क चौहानस्य सर्वतोमुखक्रीडा च भारतम् अनायासविजयं नयन्ति स्म।
प्रथमं कन्दुकताडनं कृतवान् भारतसंघः ४६. १ क्षेपणचक्रेषु २४० धावनाङ्कैः बहिर्नीतः। प्रत्युत्तरताडने ४१. २ क्षेपणचक्रेषु १५० धावनाङ्कान् सञ्चित्य पाकिस्थानसंघस्य सर्वे बहिर्गताः। ४६ धावनाङ्कान्,त्रीणि द्वारकाणि च उपलब्धवान् कनिष्क चौहानः श्रेष्ठक्रीडकः जातः।

.jpg)
.webp)

.jpg)






