प्रधानमन्त्रिणः त्रिराष्ट्रसन्दर्शनम् अद्य आरभते।
नवदिल्ली> जोर्दानम्, एत्योपिया, ओमानम् इत्येतानि राष्ट्राणि सम्पश्य नयतन्त्रसौहृदं वर्धापयितुं प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे प्रस्थास्यति।
३८ वर्षेभ्यः परमेव कश्चित् प्रधानमन्त्री जोर्दानं सम्पश्यति। राजीव गान्धिः आसीत् अन्तिमतया जोर्दानं सन्दृष्टवान् भारतस्य प्रधानमन्त्री। मोदिवर्यः अब्दुल्ला द्वितीयः नामकं जोर्दानराजं सम्पश्य विविधमण्डलेषु उभयराष्ट्रहितान् निर्णयान् करिष्यति। तदनन्तरं सः एत्योपिया, ओमानं च सन्द्रक्ष्यति।