OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 13, 2025

 बङ्गलादेशे फेब्रुवरि १२ तमे दिनाङ्के निर्वाचनम्।

धाक्का> बङ्गलादेशे बहुजन प्रक्षोभात् भूतपूर्वप्रधानमन्त्री षैक् हसीना बहिर्गतानन्तरं सम्पद्यमानं प्रथमं निर्वाचनं फेब्रुवरि १२ तमे दिनाङ्के भविष्यति। 

 २०२४ आगस्ट् पञ्चमदिनाङ्के हसीनायाः १५ संवत्सरात्मकं शासनं यदा समाप्तं ततः प्रभृति बङ्गलादेशः  राष्ट्रियप्रतिसन्धिम् अभिमुखीकुर्वन्नस्ति। निर्वाचनात् हसीनायाः राजनैतिकदलं अवामी लीग् संज्ञितं निरुद्धं वर्तते। 

  त्रिवारं प्रधानमन्त्रिपदम् आरूढवती खालिदा सिया इत्यनया नीयमानः 'बङ्गलादेश नाषणलिस्ट् पार्टी' इत्यस्य जयसाध्यता कल्प्यते। जतिया पार्टी, जमा अत्ते इस्लामी इत्यादयः दलाः अपि निर्वाचने स्पर्धिष्यन्ते। ३०० सदस्यस्थानानि सन्ति। ५० स्थानानि महिलानां कृते आरक्षितानि।