तृतीयं टि २० - भारतस्य विजयः।
धर्मशाला> अर्षदीप सिंहस्य हर्षित राणस्य च कन्दुकक्षेपणप्रभावेण दक्षिणाफ्रिकां विरुध्य तृतीये टि २० प्रतिद्वन्द्वे भारतस्य अनायासविजयः। प्रथमचरणे ताडनं कृतवान् दक्षिणाफ्रिकादलः २० क्षेपणचक्रेषु ११७ धावनाङ्कान् सम्प्राप। प्रत्युत्तरताडने भारतदलः १५. ५ क्षेपणचक्रेषु ताडकत्रयस्य विनष्टे १२० धावनाङ्कान् सम्प्राप्य विजयी अभूत्। अनेन विजयेन पञ्चस्पर्धात्मिकायां परम्परायां २-१ इति रीत्या भारतम् अग्रे तिष्ठति।
.jpg)