केरलजनविधिः
यू डि एफ् सख्याय गभीरविजयः।
एन् डि ए सख्यस्य विजयोपलब्धिः - अनन्तपुरी महानगरम्।
एल् डि एफ् सख्यस्य अप्रतीक्षितपतनम्।
कोच्ची> केरले तद्देशस्वयंप्रशासनसंस्थासु सम्पन्नस्य निर्वाचनस्य परिणामे समागते कोण्ग्रस् दलनेतृत्वे वर्तमानस्य यू डि एफ् सख्यस्य समग्राधिपत्यम्। ९४१ ग्रमपञ्चायत्तसभासु ५०५ सभाः यू डि एफ् सख्येन उपलब्धाः। २६ सभाः भाजपा नेतृत्वोपतेन एन् डि ए सख्येन प्राप्ताः। राज्यप्रशासनपक्षः वामपक्षसख्यं - एल् डि एफ्- ३४१ सभाभिः संतृप्तिमभजत। १४ जिल्लापञ्चायत्तेषु एल् डि एफ् दलाय सप्त, यू डि एफ् सख्याय सप्त च जनपदानि लब्धानि। षड् महानगरेषु यू डि एफ् ४, एल् डि एफ् १, एन् डि ए १ इति क्रमेण लब्धानि। अनन्तपुरी महानगरं एल् डि एफ् पक्षतः भाजपासख्येन निगृहीतम्। नगरप्रशासनेषु यू डि एफ् सख्येन ५४, वामपक्षेण २८, भाजपा सख्येन २ च नगराणि संगृहीतानि।