OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, December 13, 2025

 भूतपूर्वः गृहमन्त्री शिवराजपाटीलः दिवंगतः। 


लात्तूरं> वरिष्ठः कोण्ग्रस् नेता तथा भूतपूर्वः केन्द्रगृहमन्त्री च शिवराजपाटीलः (९१) दिवंगतः। शुक्रवासरे प्रभाते लात्तूरस्थे स्वभवने आसीदन्त्यम्। अन्त्येष्टिकर्माणि अद्य सम्पत्स्यते। 

  इन्दिरा गान्धी, राजीव गान्धी, मन्मोहनसिंहः इत्येतेषां मन्त्रिमण्डले राष्ट्ररक्षा, व्योमयानं, गृहम् इत्येताः सुप्रधानविभागाः शिवराज पाटीलेन ऊढाः। तथा च लोकसभाध्यक्षपदं च  ऊढवान्। २००८ तमे वर्षे यदा मुम्बय्यां भीकराक्रमणं जातं तदा स आसीत् गृहमन्त्री। तत्कारणेन सः पदं तत्याज।