OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, December 16, 2025

 मुम्बय्याम् कायिकेतिहाससंगमः।

सच्चिन्- मेसि संगमः कायिकप्रेमिणां कृते उत्साहलहरी।

मेसीवर्याय सच्चिनः स्वक्रीडावस्त्रं समर्पयति। 

मुम्बई> क्रिकट् इतिहासः सच्चिन् टेण्टुलकरः पादकन्दुकेतिहासः लयणल् मेसी च भारतीयपादकन्दुकेतिहासः सुनिल छेत्री, अन्ताराष्ट्रीयपादकन्दुकक्रीडकौ लूयी सुवारस्, रोड्रिगो पोली इत्येतैः सह यदा वाङ्कडे क्रीडाङ्कणं प्रविष्टवन्तौ तदा दशसहस्रशः कायिकाराधकाः आह्लादोन्मादावस्थां प्रापुः।क्रीडाङ्कणं सर्वं 'मेसी-- मेसी' आह्वानेन मुखरितमभवत्। 

  भारताय मुम्बई नगराय च सुवर्णनिमिषमेव मेसीवर्यस्य सन्दर्शनेन उपलब्धमिति सच्चिनः प्रस्तुतवान्। २०११ तमे वर्षे अस्मिन्नेव क्रीडाङ्कणे भारतस्य  क्रिकट् विश्वचषकप्राप्त्या सह निमषममुं सच्चिनः तुलनं कृतवान्। पादकन्दुके अपि वयं अत्युन्नतिं प्राप्यास्म इति सः प्रतीक्षामपि प्रकटीचकार। 

  मेसि वर्यः सच्चिनाय विश्वचषककन्दुकं सम्मानितवान्। सच्चिनस्तु   मेसि वर्याय आत्मनः दशमसंख्यााङ्कितं क्रीडावस्त्रं समर्पितवान्। क्रीडाङ्कणे सम्पन्नां भारतीयक्रीडकानां पादकन्दुकक्रीडामपि संवीक्षितवान्।