OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, December 16, 2025

 ऊन१९ - एष्या चषकक्रिकट्। 

पाकिस्थानं पराजित्य भारतं पूर्वान्त्यचक्रे। 

अबुदाबी> ऊननवदशवयस्कानाम् एष्या चषकक्रिकट् स्पर्धायाः चतुर्थांशे प्रतिद्वन्द्वे पाकिस्थानदलं ९० धावनाङ्कैः पराजित्य भारतं  पूर्वान्त्यचक्रं प्राविशत्। प्रवासिकेरलीयः आरोण् जोर्ज् इत्यस्य वैभवपूर्णं कन्दुकताडनं, दीपेष् देवेन्द्रस्य आग्नेयकं कन्दुकक्षेपणं, कनिष्क चौहानस्य सर्वतोमुखक्रीडा च भारतम् अनायासविजयं नयन्ति स्म। 

  प्रथमं कन्दुकताडनं कृतवान् भारतसंघः ४६. १ क्षेपणचक्रेषु २४० धावनाङ्कैः बहिर्नीतः। प्रत्युत्तरताडने  ४१. २ क्षेपणचक्रेषु १५० धावनाङ्कान् सञ्चित्य  पाकिस्थानसंघस्य सर्वे बहिर्गताः। ४६ धावनाङ्कान्,त्रीणि द्वारकाणि च उपलब्धवान् कनिष्क चौहानः श्रेष्ठक्रीडकः जातः।