OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, December 13, 2025

 राष्ट्रपतिः मणिपूरे सन्दर्शनमकरोत्। 


इम्फालः> राष्ट्रपतिः द्रौपदी मुर्मू वंशीयातिक्रमेण क्लेशमनुभूयमानं मणिप्पुरराज्यं सन्दर्शयामास। गुरुवासरे राज्यं प्राप्ता मुर्मूवर्या जनान् आश्वासयामास। तेषामाशङ्कां निवारयितुं केन्द्रसर्वकारः प्रतिज्ञाबद्ध इति तया प्रस्तुतम्। 

  दिनद्वयात्मके सन्दर्शने बह्व्यः अभियोजनाः तया उद्घाटिताः शिलान्यासं कृताः च। राष्ट्रपतिपदार्जनानन्तरं तस्याः प्रथमसन्दर्शनं भवति एतत्।