OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 14, 2025

 लयणल् मेसी भारते।

कोल्कोत्तायाम् उत्साहोज्वलं स्वीकरणम्। 

कोल्कोत्तायां मेसिवर्यः आराधकान् अभिवादयति। 

कार्यक्रमः संघर्षभरितोSभवत्। 

कोल्कोत्ता> पादकन्दुकेतिहासः अर्जन्टीनाक्रीडकः  लयणल् मेसी भारतं सम्प्राप्तवान्। शनिवासरे प्रभाते ११. ३० वादने  कोल्कोत्तायां साल्ट् लेक् क्रीडाङ्कणं सम्प्राप्तं मेसीवर्यं सहस्रशः आराधकाः सोज्वलं हस्तताडनघोषेण स्वीकृतवन्तः। तदा मोहन् बगान-डयमण्ट हारबर् दलयोः प्रदर्शनस्पर्धा प्रचलन्नासीत्। क्रीडाङकणस्य पार्श्वैकस्मिन् चलन् मेसिवर्यः आराधकान् अभिवाद्यमकरोत्। कतिपयनिमेषाः वेदिकामुपविश्यानन्तरं हैदराबादं गन्तुं वेदिकातः प्रस्थितः च। 

  किन्तु मेसिवर्ये यथेच्छं दर्शनसौभाग्यं नालभत इत्यारोप्य प्रेक्षकाः निराशाः भूत्वा अतिक्रममारब्धवन्तः। कूपीस्यूतादीन्  यान् करगतान् सर्वान् क्रीडाङकणं विक्षिप्तवन्तः। उपकरणानि नाशितवन्तश्च। घटनायां ममता बानर्जीसर्वकारेण खेदः प्रकटितः।