OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 14, 2025

 'एछ् १ बी विसा'पत्रशुल्कवर्धनं - १९ राज्यानि न्यायालयमुपगतानि।


न्यूयोर्क्> कुशलानां कर्मकराणाम् अधिवासाय ट्रम्पशासनेन विधत्तं एछ् १ बी विसा'पत्रशुल्कवर्धनं विरुध्य यू एस् राष्ट्रस्य १९ राज्यानाम् 'अटोर्णी जनरल्' पदीयानां सख्येन 'मासच्यूसेट्स्' इत्यत्र वर्तमानं न्यायवादन्यायालयं प्रति अभियाचिका समर्पिता। सख्ये न्यूयोर्कस्य 'अटोर्णी जनरल्' अपि अस्ति। नियमानुसारमधिकारं नियतप्रक्रियां वा विना एव शुल्कः क्रमातीतः वर्धापित इति याचिकायां निवेदयति। 

  एछ् १ बी विसा'पत्रस्य नूतनम्  अपेक्षाशुल्कं एकलक्षं डोलर् मितेन [९० लक्षं रूप्यकाणि] सेप्टम्बरमासे ट्रम्पेन वर्धापितम्। पूर्वमेतत्तु २००० - ५००० डोलरमितमासीत्। प्रायेण भारतीयाः एवास्य विसापत्रस्य अधिकोपयोक्तारः। कुशलमतीनां विदेशकर्मकराणां अमेरिकाम् अधिवासं कृत्वा षट्वर्षाणि यावत् वृत्तिं कर्तुम् अनेन विसापत्रेण शक्यते। इदं शुल्कवर्धनं तु स्वास्थ्य-साङकेतिक-शैक्षिकमण्डलेषु सेवाकराणां दौर्लभ्याय कारणं भविष्यतीति मुख्यविमर्शः।