इराने इस्रयेलस्य व्योमाक्रमणम्। टेहराने नैकानि स्फोटनानि।
मध्येष्या कलुषायते।
आक्रमणम् अमेरिकायाः सहयोगेनेति सूच्यते।
अयत्तोल्ला खमीनी सुरक्षितस्थानं नीतः।
इस्रयेले आपत्कालीनावस्था उद्घोषिता। जागरूकतानिर्देशः।
१३३ अफ्गानीयभीकराः हताः इति पाकिस्थानम्।
काबूल्> सीमान्तरितभीकरवादस्य प्रत्युत्तरम् इति वादरूपेण अफ्गानिस्थाने वर्तमानेषु तालिबानस्य सैनिकनिलयेषु पाकिस्थानं बोम्बवर्षमकरोत्। आक्रमणे १३३ भीकराः हताः द्विशताधिके जनाः व्रणिताः इति पाकिस्थानसेनया अभिमानितम्। पाकिस्थानस्य सैनिकस्थानानि विरुध्य अफ्गानसेनया कृतस्य आक्रमणस्य प्रत्युत्तरमासीत् पाकिस्थानस्य बोम्बाक्रमणम्।
दिल्ली।
दिल्ली मद्यनीतिक्रमप्रकरणं
अरविन्द केज्रिवालः सहापराधिनश्च अपराधविमुक्ताः।
![]() |
| अपराधविमुक्तविध्यनन्तरं माध्यमानां पुरतः भाषमाणः केज्रिवालः विकाराधीनः जायते। |
नवदिल्ली> आम् आद्मी पार्टी [ए ए पी] इति राजनैतिकदलस्य अस्तित्वप्रतिसन्धेः कारणभूते मद्यनयप्रकरणे भूतपूर्वः दिल्लीमुख्यमन्त्री अरविन्द केज्रिवालः, भूतपूर्वः उपमुख्यमन्त्री मनीष सिसोदिया, बी आर् एस् दलनेत्री के कविता इत्यादयः २३ अपराधिनः निरपराधिनः इति आदिश्य सविशेषनीतिपीठेन विनिर्मुक्ताः।
अपराधिषु एकस्मिन्नपि नाम्नि सि बी ऐ संस्थया आरोपिताः अपराधाः प्रथमदृष्ट्या अपि नावस्थाप्यन्ते इति सविशेषन्यायालयस्य न्यायाधिपः जितेन्द्र सिंहः प्रस्तुतवान्। सि बी ऐ संस्था न्यायालयस्य निशितविमर्शविधेया अभवत्।
मार्गसुरक्षायाः ५०० दिनानि - छात्राः एव सुरक्षाकर्म कृतवन्तः।
आलप्पुष़> विद्यालयस्य छात्राः मार्गसुरक्षां कुर्वन्ति। आलप्पुष़ जिलायां विद्यमानायाः सेन्ट् तेरेसास् उच्चविद्यालयाधिकारिभिः वर्षत्रयेभ्यः पूर्वं स्वेच्छया योजनेयम् आरब्धा आसीत्। पश्चात् 'सुरक्षितमार्गः' इति प्रसिद्धा SEMS School of Engineering इति संस्थायाः नेतृत्वे प्रचाल्यमानायां योजनायां संलग्ना अभवत् । इदानीम् इयं योजना कर्मकुशलतायाः ५०० दिनानि प्राप्तानि। वार्तां ज्ञात्वा आलप्पुष़ जनपदस्य अधिकारी अलक्स् वर्गीस् IAS विद्यालयम् अभिनन्दितुम् आगतवान् । विद्यालयस्य कृते अभिनन्दनफलकं दत्तवान् च। कार्यक्रमे शैक्षिकजनपदस्य अध्यक्षः (DEO) अब्दुल् सलां KAS भागं स्वीकृतवान्।
केरलस्य विविधविद्यालयेषु योजनेयं प्रचाल्यते। अस्याः योजनायै आर्थिकसाहाय्यं कुट्टूकारन् इति वाहनव्यापारसंस्थायाः CSR राशीतः लभते।
'इन्स्टग्रामे' अनुगामिसंख्यायां नरेन्द्रमोदी अग्रतमस्थाने।
नवदिल्ली> इन्स्टग्रामनामके सामाजिकमाध्यमे प्रधानमन्त्रिणः नरेन्द्रमोदिनः अनुगामिनां [Followers] संख्या दशकोटितः अतीता। विश्वस्मिन् इन्स्टग्रामे अधिकतमतया अनुगामियुक्तः विश्वनेता भवति नरेन्द्रमोदी। ४. ३२ कोटि अनुगामिभिः यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः द्वितीयस्थाने वर्तते। तृतीयस्थाने इन्डेनेष्यायाः राष्ट्रपतिः प्रबोवो सुबियान्तो अस्ति - १.५ कोटि।
भारतीयराजनैतिकनेतॄणां मध्ये अपि मोदिवर्यः प्रथमस्थाने अस्ति। द्वितीयस्थाने उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः वर्तते- १.६१ कोटि अनुगामिनः। १.२६ कोटि अनुयायिभिः विपक्षनेता राहुल गान्धी तृतीयस्थाने अस्ति।
टि-२० सूपर्८।
सिम्बाब्वेदलं विरुध्य भारतस्य विजयः।
![]() |
| विजयानन्तरं भारतदलाङ्गाः परस्परम् अभिनन्दन्ति। |
चेन्नै> पूर्वान्त्यचक्रप्रवेशस्य प्रतीक्षां प्राकट्य सूपर् ८ चक्रे सिम्बाब्वेदलं विरुध्य भारतस्य उज्वलविजयः। टि-२० विश्वचषकस्य निर्णायके प्रतिद्वन्द्वे ७२ धावनाङ्कैः आसीत् भारतस्य विजयः।
भारताय अभिषेक शर्मा [५५] हार्दिक पाण्ड्यश्च [५०*] अर्धशतकं प्राप्तवन्तौ। हार्दिक पाण्ड्यः क्रीडाप्रवीरोSभवत्। सिंबाब्वे क्रीडकः ब्रियान बेन्नटः ९७ धावनाङ्कैः अबाह्यः जातः अपि दलं पराभूतम्। सूपर् ८ मध्ये क्रीडाद्वये अपि पराजितं दलं टि-२० विश्वचषकात् बहिर्गतं च।
प्राप्ताङ्कसूचिका - प्रथमं कन्दुकताडनं कृतवत् भारतं २० क्षेपणचक्रेषु द्वारकचतुष्टयं विनश्य २५६ धावनाङ्कान् सम्प्राप। प्रत्युत्तरे सिम्बाब्वे २० क्षेपणचक्रेषु १८४/६।
टि-२० विश्वचषकः।
दक्षिणाफ्रिका पूर्वान्त्यचक्रे।
अहम्मदाबादः> टि-२० विश्वचषकस्य सूपर् ८ क्रीडायाः अन्यस्मिन् प्रतिद्वन्द्वे वेस्ट् इन्डीसं पराजित्य दक्षिणाफ्रिका पूर्वान्त्यचक्रं प्राविशत्। १७७ धावनाङ्कानां विजयलक्ष्येण कन्दुकताडनं कृतवत् दक्षिणाफ्रिकादलं २३ कन्दुकेषु अवशिष्टेषु एकस्य ताडकस्य विनष्टे लक्ष्यं प्राप। नव द्वारकाणां अनायासविजयेन पूर्वान्त्यप्रवेशः लब्धः। दक्षिणाफ्रिकानायकः एय्डन् मार्क्रमः ४६ कन्दुकैः ८२ धावनाङ्कान् सम्पादितवान्।
ईस्टर्दिने श्रीलङ्कायां भीकराक्रमणं
गुप्तान्वेषणविभागस्य भूतपूर्वः मुख्याधिकारी निगृहीतः।
कोलम्बो> २०१९ तमे वर्षे ईस्टर् दिने श्रीलङ्कायां दुरापन्नां भीकराक्रमणपरम्पराम् अनुबन्ध्य श्रीलङ्कायाः गुप्तान्वेषणविभागस्य भूतपूर्वमुख्याधिकारी मेजर् जनरल् सुरेष् साले इत्याख्यः कोलम्बोमध्ये आरक्षाधिकारिभिः निगृहीतः। भीकराक्रमणाय गूढालोचनां कृतवान्, साह्यं प्रेरणां च दत्तवान् इत्येवं निगृहणस्य हेतुः।
भारतप्रधानमन्त्रिणः इस्रयेले हृद्यं स्वीकरणम्।
नरेन्द्रमोदी केवलं न सुहृत् अपि तु सोदरः।
![]() |
| नरेन्द्रमोदिने इस्रयेलविमाननिलये दत्तं स्वीकरणम्। |
जरुसलेमः> भारतस्य प्रधानमन्त्री नरेन्द्रमोदी दिनद्वयसन्दर्शनाय इस्रयेलराष्ट्रं प्राप्तवान्। बुधवासरे बेन् गुरियोण् विमाननिलयं प्राप्तवन्तं मोदिनम् इस्रयेलस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहुः सभार्यः रक्तकम्बलं विस्तार्य स्वीकृतवान्। नरेन्द्रमोदी न केवलं सुहृत् , अपि तु सोदरः चेति नेतन्याहुः प्रस्तुतवान्।
नववर्षाभ्यन्तरे नरेन्द्रमोदिनः द्वितीयम् इस्रयेलसन्दर्शनं भवत्येतत्। परम्परागतस्वीकरणानन्तरं द्वौ प्रधानमन्त्रिणौ ह्रस्वचर्चां कृतवन्तौ। उभयपक्षसौहृदं प्रबलीकर्तुं नैकानि कार्याणि चर्चितवन्तौ इति मोदिवर्यः 'एक्स्' माध्यमेन प्रस्तुतम्।
तदनन्तरम् इस्रयेलसंसदं नरेन्द्रमोदी अभिसम्बोधनं कृतवान्। २०२३ ओक्टोबर् सप्तमदिनाङ्के हमासेन इस्रयेले कृतं "पैशाचिकं भीकराक्रमणं" मोदिना अपलपितम्। गासायाम् अनुवर्तमानं शान्तिप्रयत्नम् अनुमोदितवान् प्रधानमन्त्री नरेन्द्रमोदी पालस्तीनसमस्या परिगणनीया इत्यपि प्रोक्तवान्।
टि-२० विश्वचषकः।
इङ्लाण्टः पूर्वान्त्यचक्रे।
कान्डी> अनुस्यूततया द्वितीयविजयेन इङ्लाण्टः टि -२० विश्वचषकस्य पूर्वान्त्यचक्रं प्रविष्टवत् प्रथमदलमभवत्। पाकिस्थानं द्वारकद्वयेन पराजित्य एव पूर्वान्त्यचक्रप्रवेशः दृढीकृतः। पाकिस्थानं विरुध्य इङ्गलाण्टस्य नायकः हारी ब्रूकः शतकं प्राप्तवान्। सूपर् ८ इत्यस्य प्रथमस्पर्धायाम् इङ्गलाण्टः श्रीलङ्कां पराजापयत।
केरलम्।
राज्यनाम परं 'केरलम्'।
नामपरिष्करणाय केन्द्रप्रशासनस्य अङ्गीकारः।
नवदिल्ली> केरलराज्यस्य नामधेयः केरला [Kerala] इत्यस्य स्थाने केरलम् [Keralam] इति परिष्कर्तुं कतिपयवर्षाणि यावत् केरलसर्वकारस्य परिदेवनाय केन्द्रमन्त्रिमण्डलस्य अङ्गीकारः। २०२४ जूण्मासे केरलविधानसभया ऐककण्ठ्येन अनुमोदितमुपक्षेपमेव केन्द्रमन्त्रिमण्डलेन अङ्गीकृतम्। प्रधानमन्त्रिणः नूतने कार्यालये 'सेवातीर्था'भिधाने समाकारितस्य प्रथम मन्त्रिमण्डलस्य प्रथमनिर्णयः आसीदयम्।
रक्तदुर्गसमीपं स्फोटनभीषा
अष्ट भीकराः निगृहीताः।
नवदिल्ली> दिल्ल्यां बृहद्भीकराक्रमणाय आसूत्रणं कृतमिति सन्देहे अष्ट जनाः सुरक्षानियोक्तृभिः निगृहीताः। एषु केचन बङ्गलादेशीयाः भवन्ति। पाकिस्थानस्थस्य ऐ एस् ऐ इत्यस्य बङ्गलादेशम् आस्थानीकृत्य प्रवर्तमानस्य केषांचन भीकरसंघटनानां च निर्देशानुसारं निगृहीताः गूढालोचनां कृतवन्तः इति अन्वेषणसंस्थानां प्राथमिकाधिगमनम्।
षट् जनाः तमिलनाटतः एव निगृहीताः। द्वौ दिल्लीतः निगृहीतौ। रक्तदुर्गसमीपं स्फोटनं कर्तुं आसूत्रणं कृतमिति परिपृच्छानन्तरं अन्वेषणसंस्थया निगदितम्। लष्कर् ई तोय्बा भीकरसंघटनेन भारतस्थानि धार्मिककेन्द्राणि लक्ष्यीक्रियन्ते इति गुप्तसूचना आसीत्।
जम्मु-काश्मीरे प्रतिद्वन्द्वः
त्रयः भीकराः व्यापादिताः।
जम्मु> जेय्षे मुहम्मद् इति पाकिस्थानीयभीकरसंघटनस्य त्रयः भीकराः सुरक्षासेनया सह संघट्टने हताः। किष्त्वार् जनपदे रविवासरे प्रभाते आसीत् प्रतिद्वन्द्वः। मृतशरीराणि प्रत्यभिज्ञातुमशक्यरूपेण दग्धावस्थायामासन्। एषु एकः जेय्षे मुहम्मदस्य कमान्डर् पदीयः सेय्फुल्लााभिधानः भवतीति सूच्यते।
भारतसेना, आरक्षकसेना, सि आर् पि एफ् इत्येतेषां संयुक्तान्वेषणे आसीत् भीकराणां हत्या। ए के ४७ शतघ्नीद्वयमभिव्याप्य अनेकानि आयुधानि च अधिगतानि। अस्मिन् वर्षे अद्यावधि जम्मुक्षेत्रे सप्त भीकराः सेनया व्यापादिताः।
एस् ऐ आर् नूतनमतदान्यावलिः प्रकाशिता।
नवसु राज्येषु १. ७०कोटि मतदानिनां न्यूनता।
नवदिल्ली> नवसु राज्येषु केन्द्रप्रशासनप्रदेशेषु च समग्रमतदान्यावलीपरिष्करणं पूर्तीकृत्य नूतना मतदान्यावलिः प्रकाशिता। आहत्य मतदानिनां संख्यायां १. ७० कोटि मतदानिनां न्यूनता दृश्यते।
केरलं, गुजरात्, पुदुच्चेरी, लक्षद्वीपः, राजस्थानं, छत्तीसगढ, अन्तमान् निकोबार्, मध्यप्रदेशः, गोवा राज्येषु केन्द्रप्रशासनप्रदेशेषु च परिष्कृतमतदान्यावल्याम् आहत्य मतदानिनां संख्या १९. ७५ कोटि अस्ति। एस् ऐ आर् इत्यस्मात्पूर्वं आहत्य संख्या २१. ४५ कोटि आसीत्।
मलेष्यादेशे प्रकाशमान-मार्गरेखाः स्थापिताः, अनन्तरम् अद्भुतात्मकः प्रकाशः आगतः।
मलेष्यादेशे अन्धकारेऽपि प्रकाशमानाः मार्गरेखाः स्थापिताः, याः ग्राम्य-राजमार्गेषु विद्युत्सुविधां विना एव दीप्तिं प्रसारयन्ति। वाहनचालकाः तासु अत्यन्तं संतुष्टाः अभवन्।
मलेष्यादेशस्य सेलाङ्गोर-प्रान्ते सेमेनीय्-प्रदेशस्य समीपे मार्गे २०२३ वर्षस्य अन्त्यभागे रात्रौ वाहनचालकेभ्यः आश्चर्यकारिणी दृश्यता अभवत्। मार्गरेखाः स्वयमेव प्रकाशन्ते स्म। न तु दीपस्तम्भानां प्रकाशेन, न वा वाहनदीपप्रभायाः प्रतिस्फुरणेन, अपि तु मार्गपृष्ठात् एव। एताः रेखाः दिने सूर्यप्रकाशं सञ्चिन्वन्ति, ततः रात्रौ शनैः शनैः तम् प्रकाशं विमुञ्चन्ति।
२४५ मीटर्-दीर्घः अयं मार्गखण्डः, मलेष्यादेशस्य सार्वजनिक-निर्माण-विभागस्य (JKR) हुलु-लाङ्गत्-जनपद-शाखया जालन् सुंगै ललाङ्ग तथा जालन् सुंगै टेकाली इत्येतयोः मध्ये स्थापितः। एषः देशे प्रथमः प्रकाश-संचयी (फोटो-ल्यूमिनेसेंट्) मार्गरेखानां प्रयोगः आसीत्। एषा प्रौद्योगिकी, या दीर्घकालं मार्ग-सुरक्षा-विमर्शेषु पारम्परिक-रङ्गरेखानां तथा मार्ग-कीलकानां विकल्परूपेण चर्चिता आसीत्, मलेष्यादेशस्य ग्राम्य-प्रदेशेषु प्रकाश-सुविधा-अभावजनितां वास्तविकां समस्यां निराकर्तुं समर्था अभवत्। देशे सहस्रशः किलोमीटर-दीर्घाः ग्राम्यमार्गाः अल्पप्रकाशयुक्ताः सन्ति, तथा प्रतिसंवत्सरं षट्सहस्राधिकाः जनाः मार्ग-दुर्घटनासु प्राणान् वियोजन्ति।
महिला एष्याचषकक्रिकट्
भारतस्य किरीटप्राप्तिः। 
श्रेष्ठक्रीडिकापदं प्राप्तवती तेजल् हसाब्निस्।
बाङ्कोक्क्> महिलानां 'रैसिङ् स्टार्स् एष्या कप् क्रिकट्' [Rising stars Asia cup cricket] नामिकायां क्रिकट् स्पर्धायां भारतस्य 'ए' दलं किरीटं सम्प्राप। अन्त्यस्पर्धायां बङ्गलादेशस्य 'ए' दलं ४६ धावनाङ्कैः पराजित्य आसीत् किरीटप्राप्तिः।
प्राप्ताङ्कसूचिका - भारतं २० क्षेपणचक्रेषु १३४/७। बङ्गलादेशः १९. १ क्षेपणचक्रेषु ८८ धावनाङ्कैः सर्वाः बहिर्नीताः। ३४ कन्दुकैः ५१ धावनाङ्कान् सम्पाद्य अपराजिता जाता भारतक्रीडिका तेजल् हसाब्निस् श्रेष्ठक्रीडिकापदं प्राप्तवती।
कर्णाटकम्।
छात्राणां समर्थचलदूरवाण्युपयोगनिरोधः परिगण्यते।
बङ्गलुरु> ऊनषोडशवयस्काणां छात्राणां सामर्थ्योपेतचलदूरवाण्याः [Smartphone] उपयोगं निरोद्धुं कर्णाटकसर्वकारेण उद्दिश्यते इति मुख्यमन्त्री सिद्धरामय्यः प्रोक्तवान्। छात्रेषु वर्धमानः सामाजिकमाध्यमानां सामर्थ्ययुक्तदूरवाणीनां च उपयोगः तेषां व्यक्तित्वादि गुणान् प्रतिकूलतया बाधते इति सः प्रावोचत्। विषयेSस्मिन् विशारदानाम् उपदेशः अपेक्षितः।
अफ्गानिस्थाने पाकिस्थानस्य झटित्याक्रमणम्।
७० मरणानि। 
अफ्गानिस्थाने पाक् आक्रमणस्य दृश्यम्।
इस्लामाबादः> सीमामुल्लङ्घ्य भीकराणाम् आक्रमणस्य प्रत्युत्तररूपेण अफ्गानिस्थाने पाकिस्थानस्य सेनया विधत्ते अप्रतीक्षिताक्रमणे ७० जनाः हताः। पक्तिका, नन्गर्हरं इति प्रान्तद्वये शनिवासरे आसीदाक्रमणम्।
अफ्गानिस्थाने भीकरसंघटनानां निलीनस्थानानि एव लक्ष्यीकृतानीति पाकिस्थानसेनया निगदितम्। मृतेषु भूरिशः पाकिस्थाननागरिकाः भीकराः इति पाकिस्थानस्य गृहसहमन्त्रिणा उक्तम्। किन्तु अफ्गानिस्थानस्य सामान्यजनाः एव आक्रमणाधीनाः इति तालिबानप्रशासनेन निगदितम्।