OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, February 28, 2026

 १३३ अफ्गानीयभीकराः हताः इति पाकिस्थानम्। 

काबूल्> सीमान्तरितभीकरवादस्य प्रत्युत्तरम् इति वादरूपेण अफ्गानिस्थाने वर्तमानेषु तालिबानस्य सैनिकनिलयेषु पाकिस्थानं बोम्बवर्षमकरोत्। आक्रमणे १३३ भीकराः हताः द्विशताधिके जनाः व्रणिताः  इति पाकिस्थानसेनया अभिमानितम्। पाकिस्थानस्य सैनिकस्थानानि विरुध्य अफ्गानसेनया कृतस्य आक्रमणस्य प्रत्युत्तरमासीत् पाकिस्थानस्य बोम्बाक्रमणम्।