OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, February 24, 2026

 एस् ऐ आर् नूतनमतदान्यावलिः प्रकाशिता। 

नवसु राज्येषु १. ७०कोटि मतदानिनां न्यूनता।

नवदिल्ली> नवसु राज्येषु केन्द्रप्रशासनप्रदेशेषु च समग्रमतदान्यावलीपरिष्करणं पूर्तीकृत्य नूतना मतदान्यावलिः प्रकाशिता। आहत्य मतदानिनां संख्यायां १. ७० कोटि मतदानिनां न्यूनता दृश्यते। 

  केरलं, गुजरात्, पुदुच्चेरी, लक्षद्वीपः, राजस्थानं, छत्तीसगढ, अन्तमान् निकोबार्, मध्यप्रदेशः, गोवा  राज्येषु केन्द्रप्रशासनप्रदेशेषु च परिष्कृतमतदान्यावल्याम् आहत्य मतदानिनां संख्या १९. ७५ कोटि अस्ति। एस् ऐ आर् इत्यस्मात्पूर्वं आहत्य संख्या २१. ४५ कोटि आसीत्।