OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, February 23, 2026

 अफ्गानिस्थाने पाकिस्थानस्य झटित्याक्रमणम्। 

७० मरणानि। 

अफ्गानिस्थाने पाक् आक्रमणस्य दृश्यम्। 

इस्लामाबादः> सीमामुल्लङ्घ्य भीकराणाम् आक्रमणस्य प्रत्युत्तररूपेण अफ्गानिस्थाने पाकिस्थानस्य सेनया विधत्ते अप्रतीक्षिताक्रमणे ७० जनाः हताः। पक्तिका, नन्गर्हरं इति प्रान्तद्वये  शनिवासरे आसीदाक्रमणम्। 

  अफ्गानिस्थाने भीकरसंघटनानां निलीनस्थानानि एव लक्ष्यीकृतानीति पाकिस्थानसेनया निगदितम्। मृतेषु भूरिशः पाकिस्थाननागरिकाः भीकराः इति पाकिस्थानस्य गृहसहमन्त्रिणा उक्तम्। किन्तु अफ्गानिस्थानस्य सामान्यजनाः एव आक्रमणाधीनाः इति तालिबानप्रशासनेन निगदितम्।