OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, March 5, 2026

 इरानस्य युद्धमहानौका अमेरिकया निमज्जिता। 

८७ नाविकाः मृताः; ३२ रक्षिताः। 

यू एसेन निमज्जिता इरानस्य इरिस् देना नामिका युद्धमहानौका। 

कोलम्बो> श्रीलङ्कायाः  विदूरसमुद्रेण गम्यमानाम् इरानस्य नौसेनायाः 'इरिस् देना' नामिकां युद्धमहानौकां यू एस् राष्ट्रस्य अन्तर्वाहिनीनौका न्यमज्जयत्। बुधवासरे प्रत्युषसि भारतमहासमुद्रे आसीदियं घटना।

   श्रीलङ्कायाः दक्षिणपार्श्वे वर्तमानात्  गाला नामकनौकाशयात् ७५ कि मी दूरे आसीत् इरानस्य युद्धमहानौका। भारतस्य नेतृत्वे विशाखपट्टणं प्रान्ते सम्पन्ने 'मिलान्-२०२६' इति नाविकाभ्यासे भागं कृत्वा प्रतिनिवृत्तमाना आसीत् इरिस् देना। १८० नाविकाः तस्यामासन्। 

  आक्रमणसमये एव श्रीलङ्कायाः तटरक्षसेनां प्रति अपायसूचना प्रेषिता। अर्धहोराभ्यन्तरे तटसंरक्षणसेनायाः रक्षानौकाः  दुर्घटनास्थानं प्राप्ताः अपि युद्धनौका पूर्णतया निमग्ना आसीत्। मृतशरीराणि स्यन्दन्ते स्म। ३२ नौभटाः सेनया रक्षिताः।  

  यू एसेनैव महानौका निमज्जिता इति अमेरिकायाः  रक्षासचिवेन पीट् हेग्सेत् इत्यनेन निगदितम्। इरानस्य नौसेनायाः उन्मूलनाश एव लक्ष्यमिति पेन्टगण् संस्थया निगदितम्। इरानस्य १७ अन्तर्वाहिनीमहानौकाः निमज्जिता इति तया अभिमानितम्।