OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, February 28, 2026

 मार्गसुरक्षायाः ५०० दिनानि - छात्राः एव सुरक्षाकर्म कृतवन्तः।

  आलप्पुष़> विद्यालयस्य छात्राः मार्गसुरक्षां कुर्वन्ति। आलप्पुष़ जिलायां विद्यमानायाः सेन्ट् तेरेसास् उच्चविद्यालयाधिकारिभिः वर्षत्रयेभ्यः पूर्वं स्वेच्छया योजनेयम् आरब्धा आसीत्। पश्चात्  'सुरक्षितमार्गः' इति प्रसिद्धा  SEMS School of Engineering इति संस्थायाः नेतृत्वे प्रचाल्यमानायां योजनायां संलग्ना अभवत् । इदानीम् इयं योजना कर्मकुशलतायाः ५०० दिनानि प्राप्तानि। वार्तां ज्ञात्वा आलप्पुष़ जनपदस्य अधिकारी अलक्स् वर्गीस् IAS विद्यालयम् अभिनन्दितुम् आगतवान् । विद्यालयस्य कृते अभिनन्दनफलकं दत्तवान् च। कार्यक्रमे शैक्षिकजनपदस्य अध्यक्षः (DEO) अब्दुल् सलां KAS भागं स्वीकृतवान्। 

    केरलस्य विविधविद्यालयेषु योजनेयं प्रचाल्यते। अस्याः योजनायै आर्थिकसाहाय्यं कुट्टूकारन् इति वाहनव्यापारसंस्थायाः CSR राशीतः लभते।