OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, February 28, 2026

 दिल्ली। 

दिल्ली मद्यनीतिक्रमप्रकरणं 

अरविन्द केज्रिवालः सहापराधिनश्च अपराधविमुक्ताः। 

अपराधविमुक्तविध्यनन्तरं माध्यमानां पुरतः भाषमाणः केज्रिवालः विकाराधीनः जायते।

नवदिल्ली> आम् आद्मी पार्टी [ए ए पी] इति राजनैतिकदलस्य अस्तित्वप्रतिसन्धेः कारणभूते मद्यनयप्रकरणे भूतपूर्वः दिल्लीमुख्यमन्त्री अरविन्द केज्रिवालः, भूतपूर्वः उपमुख्यमन्त्री मनीष सिसोदिया, बी आर् एस् दलनेत्री के कविता इत्यादयः २३ अपराधिनः निरपराधिनः इति आदिश्य सविशेषनीतिपीठेन  विनिर्मुक्ताः। 

  अपराधिषु एकस्मिन्नपि नाम्नि सि बी ऐ संस्थया आरोपिताः अपराधाः प्रथमदृष्ट्या अपि नावस्थाप्यन्ते इति सविशेषन्यायालयस्य न्यायाधिपः जितेन्द्र सिंहः प्रस्तुतवान्। सि बी ऐ संस्था न्यायालयस्य निशितविमर्शविधेया अभवत्।