OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, February 26, 2026

 भारतप्रधानमन्त्रिणः इस्रयेले हृद्यं स्वीकरणम्। 

नरेन्द्रमोदी केवलं न सुहृत् अपि तु सोदरः।

नरेन्द्रमोदिने इस्रयेलविमाननिलये दत्तं स्वीकरणम्। 

जरुसलेमः> भारतस्य प्रधानमन्त्री नरेन्द्रमोदी दिनद्वयसन्दर्शनाय इस्रयेलराष्ट्रं प्राप्तवान्। बुधवासरे बेन् गुरियोण् विमाननिलयं प्राप्तवन्तं मोदिनम् इस्रयेलस्य प्रधानमन्त्री बञ्चमिन्  नेतन्याहुः सभार्यः रक्तकम्बलं विस्तार्य स्वीकृतवान्। नरेन्द्रमोदी न केवलं सुहृत् , अपि तु सोदरः चेति नेतन्याहुः प्रस्तुतवान्। 

  नववर्षाभ्यन्तरे नरेन्द्रमोदिनः द्वितीयम् इस्रयेलसन्दर्शनं भवत्येतत्। परम्परागतस्वीकरणानन्तरं द्वौ प्रधानमन्त्रिणौ ह्रस्वचर्चां कृतवन्तौ। उभयपक्षसौहृदं प्रबलीकर्तुं नैकानि कार्याणि चर्चितवन्तौ इति मोदिवर्यः 'एक्स्' माध्यमेन प्रस्तुतम्। 

  तदनन्तरम् इस्रयेलसंसदं नरेन्द्रमोदी अभिसम्बोधनं कृतवान्। २०२३ ओक्टोबर् सप्तमदिनाङ्के हमासेन इस्रयेले कृतं "पैशाचिकं भीकराक्रमणं" मोदिना अपलपितम्। गासायाम् अनुवर्तमानं शान्तिप्रयत्नम् अनुमोदितवान् प्रधानमन्त्री नरेन्द्रमोदी पालस्तीनसमस्या परिगणनीया इत्यपि प्रोक्तवान्।