OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, February 24, 2026

 जम्मु-काश्मीरे प्रतिद्वन्द्वः 

त्रयः भीकराः व्यापादिताः। 

जम्मु> जेय्षे मुहम्मद् इति पाकिस्थानीयभीकरसंघटनस्य त्रयः भीकराः सुरक्षासेनया सह संघट्टने हताः। किष्त्वार् जनपदे रविवासरे प्रभाते आसीत् प्रतिद्वन्द्वः। मृतशरीराणि प्रत्यभिज्ञातुमशक्यरूपेण दग्धावस्थायामासन्। एषु एकः जेय्षे मुहम्मदस्य कमान्डर् पदीयः सेय्फुल्लााभिधानः भवतीति  सूच्यते। 

  भारतसेना, आरक्षकसेना, सि आर् पि एफ् इत्येतेषां संयुक्तान्वेषणे आसीत् भीकराणां हत्या। ए के ४७ शतघ्नीद्वयमभिव्याप्य अनेकानि आयुधानि च अधिगतानि। अस्मिन् वर्षे अद्यावधि जम्मुक्षेत्रे सप्त भीकराः सेनया व्यापादिताः।