टि-२० विश्वचषकः।
न्यूसिलान्टः अन्त्यस्पर्धायाम्।
फिन् अलनाय शीघ्रतमं शतकम्। [३३/१००*]
शतकं प्राप्तवान् फिन्अलन्।
कोल्कोत्ता> दक्षिणाफ्रिकां नव द्वारकैः पराजित्य न्यूसिलान्टः टि-२० विश्वचषकस्य अन्त्यस्पर्धां प्राविशत्। प्रथमं कन्दुकताडनं कृतवत् दक्षिणाफ्रिकादलं २० क्षेपणचक्रेषु ८ ताडकानां विनष्टे १६९ धावनाङ्कान् सम्पादयामास। न्यूसिलान्टस्य ताडनक्रीडायां १२. ५ क्षेपणचक्रेषु केवलमेकस्य द्वारकस्य विनष्टे १७३ धावनाङ्कान् सम्पाद्य ते अन्त्यचक्रं प्राविशन्।
प्रारम्भक्रीडकस्य फिन् अलन् इत्यस्य शीघ्रतमं शतकं - ३३ कन्दुकेषु १००* - न्यूसिलान्टस्य विजयस्य सविशेषता अस्ति। क्रीडाप्रवीरः अपि अलनः अस्ति।