हैदराबाद्-नगरे ‘द्वि-दिवसीय-संस्कृत-कार्यशाला’ सुसम्पन्ना
हैदराबाद्> पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य पक्षतः ‘द्वि-दिवसीय-संस्कृत-कार्यशाला ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः ‘श्री-अरविन्द-भवन’-परिसरे सुसम्पन्ना। हैदराबाद् नगरस्य प्रसिद्धेन भाषावैज्ञानिकेन डॉ. वाई.एन्. राव्-महोदयेन कक्ष्या चालिता।
कार्यशालायां तेलङ्गाणा राज्यस्य हैदराबाद्/सिकन्दराबाद्- नगरद्वय जगित्याल् च-नवदेहली-गुरुग्रामम्-महाराष्ट्र राज्यस्य नागपुर्-कर्णाटक राज्यस्य बेङ्गलूरु-आन्ध्र प्रदेश राज्यस्य विशाखपट्टणम् काकिनाडा विजयवाडा-विदेशस्य दुबाई (यू.ए.ई.) च-नगरेभ्यः pÂazt!-प्रतिभागिनः (पुरुषाः महिलाः बालाश्च) भागं गृहीतवन्तः।












