OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 19, 2018

भारतनाविकसेनाम् आक्रमितुं भीकराणां कृते  ISI प्रशिक्षणम्।
     नवदिल्ली> पठान् कोट् घटनाम् अादर्शं कृत्वा स्थल नाविकसेनाम् आक्रमितुं पाकिस्थानेन सज्जीक्रियते इति बैद्धिकप्रमुखाः अवेदयन्ति। पाकिस्थानम् अधिवसन्ताः अतङ्कवाददलीयाः लष्कर् इ त्वैब, जैष् इ महम्मद् आदयाः एव आक्रमणाय सज्जतां कुर्वन्ति इत्यावेदनम्। 
      सन्दर्भेस्मिन् सीमासुरक्षाम् अवर्धयत्। आक्रमणोत्सुकाः भूत्वा दशानां सङ्घः निलीयप्रवेशनाय सज्जाः भूत्वा सीमासमीपे तिष्टन्तः सन्ति। केल् आत्मुकं, टुदिन् हल्, लीप् इत्याख्येन सानु प्रदेशेन स्यात् निलीनाधिनिवेशः इत्यपि बैद्धिकप्रवराणाम् अावेदने अस्ति। अपि च  भारतसेनाम् आक्रमितुं एल् इ टि जय्ष दलयोः उपरि ऐ एस् ऐ द्वारा शक्तः सम्मर्दः अस्ति इत्यपि आवेदने अस्ति।  अपि च जय्ष् इ मेहम्मद् भीकराणां पाकिस्थानस्थ बहवल्पुरे भारतनाविकसेनाम् आक्रमितुं प्रशिक्षणमपि प्रचलति इति च आवेदने अस्ति।