OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 20, 2018

अद्य जनतन्त्रस्य सुप्रधानं दिनम् - नरेन्द्रमोदी।
    नवदल्ली> जनतन्त्रस्य सुप्रधानं दिनं भवति अद्य इति प्रधानमन्त्री नरेन्द्रमोदी टिट्वर् मध्ये लिखितवान्। लोकसभायाम् अद्य समारब्धमाणस्य अविश्वासचर्चायाः आधारे एव प्रधानमन्त्रिणः ट्वीट् समागतम्। समग्रायै क्रियात्मकायै अविघनायै चर्चायै मम सहकारिणः सन्दर्भोयम् उपयोक्तुं प्रयत्नं करिष्यन्ति इति मम प्रतीक्षा इत्यपि तेन ट्वीट् कृतम्। एतस्य कृते राष्ट्रपैरान् तथा भारतसंविघनं प्रति वयं ऋणबद्धाः भवामः। अस्मिन् दिने जनाः श्रद्धया तिष्ठन्तः सन्ति।  इति च तेन ट्वीट् कृतम्।
     
      नरेन्द्रमोदीसर्वकारं विरुद्ध्य प्रप्रथमः अविश्वासप्रमेयः लोकसभायाम् अद्य (२०-०७-२०१८) परिगण्यते। अविश्वासचर्चायै सम्मदिदानायैै च अद्यतन मेलनस्य सम्पूर्णं दिनं कल्पितम् अस्ति। ५३४ अङ्गयुक्त सभायाम् ३१२ अङ्गाः सन्ति शासनपक्षे। अत एव अविश्वासप्रक्रमः पराजयी भविष्यति इति राजनैतिकनिरीक्षकाः   अभिप्रेति।