OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 21, 2018

छात्रारक्षकसैन्याभियोजना आराष्ट्रं समारभ्यते। 
     अनन्तपुरी > केरलस्य आरक्षकविभागस्य स्तुत्यर्हा अभियोजना छात्रारक्षकसैन्यं ( Students'  Police Cedet -   SPC ) राष्ट्रव्यापिका भविष्यति। अस्याः राष्ट्रियतलस्योत्घाटम् अद्य हरियानाराज्यस्थे गुड्गाव् ग्रामे केन्द्रगृहमन्त्री राजानाथसिंहः निर्वक्ष्यति।

    भारते प्रथमतया २००६ तमे संवत्सरे केरले एव इयं योजना अारब्धा। छात्रेषु व्यवहारनियमः, नेतृसामर्थ्यं राष्ट्राभिमाम् इत्यादिकं संवर्धयितुं लक्ष्यीकृत्य एवेयं समारब्धा। एतावदाभ्यन्तरे सप्तलक्षाधिकं छात्राः अनया परियोजनया परिशीलिताःI अस्मिन् समये केरलस्थेषु ६०० विद्यालयेषु ५०००० छात्राः भागभागित्वं कुर्वन्ति। इदानीं केरलं विना हरियाना राजस्था-कर्णाटक-राज्येषु अपि  योजनेयं प्रचलन्ती अस्ति।