OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 19, 2018

स्वतन्त्र-प्राथमिकमात्रे विद्यालये संस्कृताध्ययनं प्रारंभणीयम् - बालाधिकार आयोगः
समीक्षा अजित् प्रसाद्
     अनन्तपुरी- केरलम्> प्राथमिकमात्रे विद्यालये अपि संस्कृताध्ययनं प्रारम्भणीयम् इति राज्यस्थरीयबालाधिकार- आयोगः  निर्देशम् अकरोत्। तृतीयकक्ष्यायाः छात्रायाः समीक्षायाः निवेदने अासीत् आयोगस्य निर्णयः। कोल्लम् जनपदस्थे एष़ुकोण् प्रदेशीयस्य अजित् प्रसादस्य पुत्री  भवत्येषा।प्राथमिकमात्रविद्यालस्य छात्रा भवत्यपि  संस्कृताध्ययनस्य सन्दर्भः भवतु इत्युक्त्वा आसीत् अस्याः न्यवेदनम्।
      2012 तमे संवत्सरे आसीत् केरलसर्वकारेण राज्येषु संस्कृताध्ययनं समारब्धम्। किन्तु प्रथमकक्ष्यातः सप्तमपर्यन्तं विद्यमानेषु  विद्यालयेषु एव अध्ययनाय अनुज्ञा प्रदत्ता। बालाधिकार-आयोगस्य आदेशेन प्रथमकक्ष्यातः चतुर्थपर्यन्तं विद्यमानेषु  स्वतन्त्रविद्यालयेषु अपि संस्कृताध्ययनं साध्यम् इति प्रतीक्षायाम् सन्ति संस्कृतप्रेमिणः।
     प्रथमकक्ष्यातः संस्कृताध्ययनं समारभ्य पाठपुस्तकम् , अध्यापकसाहायी, प्रश्नपत्रं, अध्यापकप्रशिक्षणं,  छात्रवृत्तिः च वर्तन्ते। किन्तु अध्यापकनियुक्तिविषये प्राथमिककक्ष्यायाः संस्कृताध्यापनं न परिगण्यते। अत एव पर्याप्तिमात्रम् अध्यापकानां सेवनं नास्ति तत्र। प्रथमकक्ष्यातः दशमपर्यन्तं विद्यमानेषु विद्यालयेषु ५० होरात्मकम् एकेन अध्यापकेन अध्यापनीयम् इत्यस्ति इदानीन्तनस्थितिः।