OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 14, 2018

केरलस्य राज्यस्तरीयसंस्कृतवनिताध्यापकसम्मेलम्  अद्य कालट्याम्।
      कोच्ची >अधुनातनकाले वनिताशक्तीकरणस्य बोधवत्करणं तथा संस्कृतभाषाशिक्षणं संस्कृतेः पुनरुज्जीवनम् इति उद्घोषणं च लक्ष्यीकृत्य 'केरल संस्कृताध्यापकफडरेषन्' नाम्नः संघटनस्य नेतृत्वे जुलाई १४ दिनाङ्के 'मातृकम् २०१८' इति नामधेये वनिताध्यापकसंगमः आदिशङ्करजन्मग्रामे कालट्यां  सम्पद्यते। ब्रह्मानन्दोदयं विद्यालये समायोज्यमानं सम्मेलनं राज्यस्तरीयवनिता आयोग समित्याः अध्यक्षा एम् सि जोसफैन् उद्घाटनं करिष्यति। विधानसभासामाजिकः रोजि एम् जोण्, श्रीशंकराचार्य संस्कृतविश्वविद्यालयस्य संस्कृतप्रचरणविभागाधिकारी डो. के वि अजित्कुमारः , श्रीरामकृष्ण अद्वैताश्रमस्य अधिपतिः विद्यानन्दस्वमिनः, कालटिग्रामाध्यक्षा के तुलसी च विशिष्टातिथयः भवन्ति। 
       सम्मेलने$स्मिन् भाषापण्डिता प्रोफ. ओ. वत्सला आद्रियते, संस्कृतभाषायां लघुचलनचित्रं निर्मितवती अध्यापिका श्रुती सैमण् अनुमोदते च। अनन्तरं सम्पद्यमानायां सङ्गोष्ठ्यां डो. एम् लक्ष्मीकुमारी प्रबन्धावतरणं करोति। अस्मिन् कार्यक्रमे सम्प्रतिवार्तायाः श्रेष्ठतरा वार्तावतारिका फात्तिमा मुण्टेत्त् नामिका छात्रा अनुमोदनमावहति।