OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 17, 2018

सौन्दर्यवर्धकचूर्णम् अर्बुदस्य कारणम्- जोण्सन् अान्ट्  जोण्सणाय ३२००० केटि रुप्यकाणि  दण्डितानि। 
        वाषिङ्टण्> औषधनिर्माण संस्थायै जोण्सण् आन्ट् जोण्सणाय अमेरिक्कराष्ट्रस्य  न्यायालयः ४७० कोटि   डोलर् धनम् अदण्डयत्। अस्बट्टोस् (Asbestos) इति वस्तुना संयुतस्य सैन्दर्यवर्धकवस्तुनः (Talcum Powder) उपयोगेन २२ स्त्रियः अर्बुदरोगबाधिताः अभवन् इति न्यायव्यवहारे एव न्यायालयस्य अयम् आदेशः। 
       षट् सप्ताहपर्यन्तं कृते वादप्रतिवादान्ते अासीत् दण्डनिर्णयः। वैयक्तिकशुचये उपयोक्तुं निर्धारितम् आसीत् इदं चूर्णम्। विगतानि  ४० वर्षाणि यावत् चूर्णमिदं एवं रीत्या विक्रीतवान् जोण्सण् अन्ट्जोण्सणः। पूर्वस्मिन् कालेടपि एषः एवं दण्डितः अासीत्।