OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, April 1, 2020

‘मनोगतम्’ [०२.१०] ‘मन की बात’ प्रसारण-तिथि: - २९-मार्च, २०२०                      [भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-गवीश-द्विवेदि-पुरुषोत्तम-शर्मभिः सम्भूय बलदेवानन्द-सागर-द्वारा]                 
        मम प्रियाः देशवासिनः, सामान्यतया ‘मन की बात’-‘मनोगतम्’ इत्यत्र अहं विविधान् विषयान् समादाय आगच्छामि | परन्तु साम्प्रतं, देशस्य जगतश्च मनसि केवलं, केवलम् एकमात्रञ्च वृत्तमस्ति - ‘कोरोना-वैश्विक-महामारी’-तः समापन्नं भयङ्करं सङ्कटम् | एतादृश्यां स्थितौ,  अहम् अन्यत् किमपि वृत्तं कथयेयम् इति नैवोचितम् | बहूनि महत्वपूर्णानि वृत्तानि वदेयम्, परञ्च अद्य मम मनः अस्याः महामार्याः सन्दर्भे कानिचित् वृत्तानि वक्तुं वाञ्छति | परञ्च सर्व-प्रथमं सर्वेषां देशवासिनां समक्षं क्षमां याचे | ममात्मा कथयति यत् भवन्तः अवश्यं मां क्षमिष्यन्ते यतो हि केचन एतादृशाः निर्णयाः विहिताः येषां कारणात् भवन्तः अनेकविधानि कष्टानि
मङ्‌गलग्रहस्य पर्वतश्रृङ्गात् 'क्यूरियोसिट्टि' उपग्रहस्य स्वात्मचित्रम्। 
    नाससंस्थायाः 'क्यूरियोसिट्टि' इति उपग्रहेण  मङ्‌गलग्रहस्य उतुङ्गपर्वतश्रृङ्गात् स्वात्मचित्रम् प्रेषितम्। नास संस्थायाः अध्ययनपेटकः क्यूरियोसिट्टि इत्याख्यः ३६०° 'पनोरमा'यां-रम्यतया गृहीतानि ८६ चित्राणि सन्ति इति नास संस्थया आवेद्यते।
१०१५ संवत्‍सरतः पञ्चकिलोमीट्टर् उन्नतस्य अस्य मौण्टषार्प् पर्वतस्य  श्रृङ्गम् आरोढुं प्रयतितवन्तः आसीत् पेटकः। 
      मङ्गलग्रहस्य पर्यावरणे सूक्ष्म जीविनः जीवने उपयुक्त व्यवस्था असीत् वा इति प्रत्यभिज्ञानाम् एव अध्ययनस्य लक्ष्यम्।
कोविड-नवदश सङ्क्रमणविषये मिथ्या प्रचारकर्तृणो जनान् विरुध्य प्राथमिक्य: पञ्जीकरिष्यन्ते- गृहसचिव:
-पुरुषोत्तमशर्मा
अजयभल्ला
 नवदेहली> गृहसचिवः अजयभल्ला प्रावोचत् यत् सद्यैव पारगमनानुमति-नियमोल्लङ्घनं विधाय भारतयात्रायां समानता: वैदेशिक-नागरिकाणां नामानि प्रतिबन्धितानां सूच्यां संयोज्य तान् विरुध्य कठोर-कार्याचरणं करिष्यते। सममेव  निगदितं यत् कोविड-नवदश सङ्क्रमणविषये मिथ्या प्रचारकर्तृणो जनान् विरुध्य अपि आपत्प्रबन्धनाधिनियमानुगुणं प्राथमिक्य: पञ्जीकरिष्यन्ते।
विषाणुव्यापनप्रतिरोधे निस्साह्यतां प्रकाश्य लोकराष्ट्राणि। 
नियन्त्रणाणि कर्कशायन्ते। 
> कोणोणाविषाणुव्यापनं प्रतिरोद्धुं भूरिशः राष्ट्रेषु अशक्यमानेषु नियन्त्रणानि इतोपि कर्कशं कर्तुं राष्ट्राणि निर्बद्धानि सन्ति। मोस्को लागोस्, नगरद्वयं ह्यः पूर्णतया पिहितम्। अमेरिक्कायां विर्जीनिया , मेरिलान्ट् राज्ययोः  जनाः गृहान्तवासाय कल्पिताः। नियन्त्रणानि सन्त्यपि इट्टली, स्पेयिन्, जर्मनी, ब्रिटेन् इत्यादिषु राष्ट्रेषु रोगव्यापनम् अनियन्त्रितं वर्धते। 
  अमेरिक्कायां मृत्युसंख्या गतदिनपर्यन्तं ३२०० अतीता। सार्धलक्षं  जनाः  विषाणुबाधिताः अभवन्। दशलक्षं जनाः निरीक्षणे वर्तमानाः सन्ति। 
 इट्टलीराष्ट्रे एकादशसहस्रं जनाः विषाणुबाधया मृताः। एप्रिल् १२दिनाङ्कपर्यन्तं पिधानमनुवर्तिष्यते इति प्रधानमन्त्रिणा जुसप्पे कोन्ते इत्यनेनोक्तम्। 
 स्पयिने मृत्युसंख्या इतःपर्यन्तं ८००० अतीता। केवलं  ह्यः ८२९ मरणान्यभवन्। 
   ब्रिट्टने गतदिने ३९३ जनाः मृत्युमुपगताः। लण्टने गात्विक् विमाननिलये सर्वाणि सेवनानि निरुद्धानि।

Tuesday, March 31, 2020

आविश्वं कोविड्भीत्‍याम् - उत्तरकोरियाः अग्निबाणपरीक्षायाम्। 
उत्तरकोरिस्य राष्ट्रपतिः किम् जोङ् उन्
     सोल्> आविश्वं जनाः कोविड्भीत्‍या दूयमानाः सन्ति।  किन्तु उत्तरकोरियाः अग्निबाणपरीक्षायां श्रद्धालवाः सन्ति।  विगते रविवासरे ह्रस्वदूराग्नि बाणानां प्रयोग परीक्षणानुबन्धतया सोमवासरे बृहद्दूरबाणानि अपि कृतानि। रविवासरे एव दक्षिणकोरियेन विप्रतिपतिः प्रकाशिता। आविश्वं जनाः कोविड् प्रतिरोधे तिष्ठन्तः सन्ति। सन्दर्भेऽस्मिन् अत्तर कोरियस्य प्रक्रमः अनुचितः इति दक्षिणकोरियेण  अभिप्रेतम्।

टोकियो ओलिम्पिक्स् महस्य परिष्कृततिथिः निर्णीता। 

टोकियो> कोविड् विषाणुव्यापनानुबन्धतया दीर्घिता  ओलिम्पिक्स् क्रीडामहस्य तिथिः  परिष्कृत्य निर्णीता। ​2021 संवत्सरे जूलैमासस्य 23 दिनाङ्कतः  ​ओगस्ट 8 दिनाङ्क पर्यन्तं भवति स्पर्धा। विविधराष्ट्रैः कोरोणादुरितकाले स्पर्धा मास्तु इति तेषां विप्रतिपत्ति: प्रकाशिता आसीत्। अतः एव भवति दिनाङ्कस्य पुनर्निर्णयम्। 'टोकियो ओलिम्पिक्स् २०२०' इति अभिधया एव भवति  क्रिडा स्पर्धा।

Monday, March 30, 2020

वुहान् पुनरुद्घृतम्। रेल् यानं पुनरारब्धम्।
    वुहान्> कोरोणविषाणोः प्रभवस्थाने वुहान् नगरे जनानां जीवनं सामान्यावस्थां  प्राप्नोति। मासानां बन्धनात् मुक्ता रेल्यान सेवा ह्यः समारब्धा।  यात्राबन्धनं पूर्णतया न विमुक्तम् इति कारणेन निजीय  यानानि चालयतुम् अनुज्ञा नास्ति।  उपसहस्रं जनाः रेल् याने यात्रायै आगताः आसन्। सर्वे मुखावरणं धृतवन्तः आसन्। विषाणुप्रतिरोध-प्रवर्तनानि अनुवर्तते इत्यनेन जनाः हस्तावरणादिकं धृतवन्तः आसन् इति अन्ताराष्ट्रमध्यमैः आवेदितम्। वुहान् नगरे 50,000 जनाः रोगग्रास्ताः आसन्। मृतानां संख्यायायां न्यूनत्वम् आगतं चेदपि ह्यः त्रयः मृताः।

Sunday, March 29, 2020

कोविड् अतिजीवनाय रिसर्वबैंकस्य समाश्वासप्रक्रमाः।‍
* ऋणप्रत्यर्पणाय मासत्रयस्य जडीकरणम्!
* वृद्धिमानं न्यूनीकृतम्!
   मुम्बई >  कोरोणाबाधया जनेषु क्लिष्टेषु सत्सु मध्यवर्गजनानाम् आश्वासरूपेण रिसर्वबैङ्केन नैकाः प्रक्रमाः प्रख्यापिताः। रिसर्वबैङ्कस्य राजज्यपालः शक्तिकान्तदासः धनर्णनयरूपवत्करणसमित्याः निर्णयान् प्रख्यापितवान्। भवन-यानानाम् ऋणप्रत्यर्पणाय मासत्रयस्य जडीकृतकालः [Moratorium] प्रख्यापितः। मासत्रयं यावत् प्रतिमासप्रत्यर्पणं [E M I] नावश्यकम्। रिपोमानं ५.१५ इत्यस्मात् ४.४० प्रतिशतरूपेण न्यूनीकृतम्। अनेन ऋणानां वृद्धिः न्युनीक्रियते। तथा च निक्षेपकाणां वृद्धिरपि न्यूनीभविष्यतीति प्रतिकूलताप्यस्ति।
50,000 कोरोणग्रस्ताः, स्वात्मनिरीक्षणबन्धनं न आवश्यकम् - ट्रम्पः
    वाषिङ्‌टण्> अमेरिक्का राष्ट्रे कोरोणग्रस्तानां सङ्ख्या 50,000 इति अभवत्। तथापि स्वात्मनिरीक्षणबन्धनं न आवश्यकम्, जनेभ्यः यात्रानियन्त्रणम् एव आवश्यकम् इति अमेरिक्कस्य राष्ट्रपतिना डोणाल्ड्  ट्रम्पेण उक्तम्। न्यूयोर्क्, न्यूजेर्सि, कणक्टिकट् प्रदेशाः कोविड् -१९ विषाणोः प्रभावित-केन्द्रः  इति ट्रम्पेण अभिप्रेतम् आसीत्। तम् अभिमतम् उपजीव्य भवति ट्रम्पस्य नूतनाभिमतानां प्रकाशनम्। स्वात्मनिरीक्षणबन्धनं न आवश्यकम् इति ट्रम्पेण टिट्वर् मध्ये लिखितम्।
यु के राष्ट्रे षण्मासपर्यन्तं बन्धनं भविष्यति इति स्वास्थ्यायाेगाध्यक्षा। 
    लन्टण्> कोराणा विषाणु व्यापनं द्वितीयवारं मा भवतु इति विचिन्त्य षण्मासपर्यन्तं सम्पर्क-निरोधनम् आवश्यकम् अतः षण्मासपर्यन्तं बन्धनप्रक्रमः  स्यात्  इति  स्वास्थ्यायाेगाध्यक्षा जेन्नि हारिस् पूर्वसूचना दत्तवती। इदानीन्तन निशितप्रक्रमाः सेप्तम्बर् मासपर्यन्तम् अनुवर्तिष्यते।  बन्धनप्रक्रमः जनान् तेषां जीवनशैल्यां परिष्कारम् आनेतुं निर्बद्धवान्। घटना अनियन्त्रिता चेत्‌ दीर्घकालीनः प्रक्रमः अनिवार्यः भविष्यति इत्यपि सा सुव्यक्ततया उक्तवती

Saturday, March 28, 2020

लोके बहवः प्रमुखाः कोविड्ग्रस्ताः। 
कोच्ची >  लोकराष्ट्रेषु बहवः राष्ट्रनेतारः प्रमुखाश्च कोविड् - १९ रोगग्रस्ताः अभवन्। केचन मृताश्च। 
  ब्रिट्टने प्रधानमन्त्री बोरिस् जोण्सणः , राजवंशस्य अनन्तरगामी चाल्स् राजकुमारः, स्वास्थ्यमन्त्री माट् हान्कोक् , प्रमुखः अभिनेता इद्रिस् एल्बः इत्येते कोरोणाबाधिताः चिकित्सायां वर्तन्ते। 
  यरोप्यन् राष्ट्रसमूहे ब्रक्सिट् इत्यस्य मध्यस्थः मैक्कल् बार्णियर्, होलिवुड् अभिनेतारौ टोम् हाङ्क्स् तथा तस्य पत्नी रिता विल्सण् , चिलीयः साहित्यकारः लूयिस् सेपुल् वेडा , फिन्लान्ट् राष्ट्रस्य भूतपूर्वः राष्ट्रपतिः तथा नोबेल पुरस्कारजेता मार्टि अट्टिसारी, अर्जन्टीनियः पादकन्दुकक्रीडकः पौलो डिबाला नामकः, फ्रञ्च् कन्दुकक्रीडकः ब्लेय्स् मत्यूडी इत्यादयः प्रमुखाः अपि कोरोणाबाधया चिकित्सायां वर्तन्ते। 
 बहवः प्रमुखाः कोविड्बाधया मृताः। १. मानु दिबाङ्को [साक्साफोण् वादकः, अाफ्रिक्का], २. टेरन्स् मक्नल्ली [नाटककारः, यू एस्], ३. और्लस् माबले [कोङ्गो गायकः], ४. फ्लोयिड् कार्डोस् [पाचकविदग्धः, भारतं], ५. लोरन्सो सान्स् [भूतपूर्वाध्यक्षः, रयल् माड्रिड्]।

Friday, March 27, 2020

कोविड्-19 इति विषाणुग्रस्थं ब्रिट्टणस्य प्रधानमन्त्रिणं सन्द्रर्शितेषु एलिसबत् राज्ञी अपि। 
एलिसबत्त् राज्ञी
    लन्टण् > कोविड्-19 इति विषाणुग्रस्थं ब्रिट्टणस्य प्रधानमन्त्रिणं सन्द्रर्शितानां पट्टिकायां एलिसबत् राज्ञी अपि अस्ति। मार्च् मासस्य 11 दिनाङ्के आसीत् मिथो मेलनम्। इदानीम् स्वास्थ विषयये स्वस्था भवति एषा इति बेक्किङ् हाम् राजप्रासादात् आवेदितम्I 93 वयस्का राज्ञी  98 वयस्केन भर्तृणा फिलिप्‌ राजकुमारेण सह स्ववसत्यां वसति। पुत्रः चार्लस् राजकुमारः पूर्वमेव रोगग्रस्थः  अस्ति। चार्लसस्य स्वास्थ्यः इदानीं पुष्टिं प्राप्स्यति च।
अतिजीवनाय केन्द्रसर्वकारस्य १.७ लक्षंकोटिरूप्यकाणां साह्यभाण्डम्। 
* निःस्वानां कृते मासत्रये १५ किलोपरिमितं निश्शुल्कं तण्डुलम्।
* मासत्रयं यावत् निश्शुल्केन पाकेन्धनम्।
नवदिल्ली >  कोरोणाविषाणुव्यापनेन राष्ट्रे सञ्जातं अार्थिकाघातं परिहर्तुं केन्द्रसर्वकारेण १.७लक्षं कोटिरूप्यकाणां साहाय्यभाण्डं प्रख्यापितम्। कोरोणाबाधया राष्ट्रे यःको$पि अनशनेन न पीडयेत् इति उद्दिश्य भारतस्य वित्तमन्त्रिणी निर्मलासीतारामः भाण्डमिदं प्रख्यापितवती। 
  'प्रधानमन्त्री कल्याण अन्न योजना' प्रकारेण राष्ट्रस्य ८० कोटिनिर्धनानां कृते आगामिनि मासत्रयं यावत् पञ्चकिलोपरिमितं तण्डुलः गोधूमः वा एककिलोपरिमितः धान्यवर्गश्च निश्शुल्केन दास्यति। कृषकेभ्यः 'प्रधानमन्त्री किसान् आयोजनया' प्रतिवर्षं दीयमानस्य ६००० रूप्यकाणां साह्यधनस्य प्रथमों$शरूपेण २००० रूप्यकाणि एप्रिमासस्य प्रथमवारे दीयन्ते। ८.६९कोटि कृषकेभ्यः अस्य प्रयोजनं लभते। 
  निस्वाः वरिष्ठाश्च नागरिकाः, विधवाः, भिन्नशेषिजनाः इत्येतेभ्यः सहस्ररूप्यकाणि समाश्वासरूपेण मासत्रयाभ्यन्तरे दीयन्ते। स्वास्थ्यप्रवर्तकेभ्यः ५० लक्षरूप्यकाणां जीवननिगमरक्षणं विधास्यति। 

कोरोण विषाणुग्रस्थं  प्रत्यभिज्ञातुं श्वानाः  प्रशिष्यन्ते।

   लन्टण्> बिट्टणस्य स्वैच्छिक संस्थया कोरोण प्रत्यभिज्ञातुं श्वानाः  प्रशिष्यन्ते। श्वानानां घ्राणशक्ति:  उपयोक्तुं शक्यते इति अध्ययनमवलम्ब्य भवति प्रशिक्षणम्।  'मेडिक्कल् डिट्टक्षन् डोग्स्' इति स्वैच्छिकसंस्था लन्टण् स्कूल् ओफ् हैजीन् आन्ट् ट्रोप्पिक्कल् मेडिसिन् इति संस्थया, दरहां विश्वविद्यालयेन च मिलित्वा परियोजनेयं समारप्स्यते। षट् सप्ताहाभ्यन्तरे श्वानाः प्रशिक्षिताः भविष्यन्ति इति इति एते वदन्ति। तदर्थं वैज्ञानिकाः साहाय्यम् अभ्यर्थितवन्तः। पार्किसण्स्, बाक्टीरियल् इन्फक्षन्, कान्सर आदि  व्याधीनां प्रत्यभिज्ञानाय स्निफर् इति श्वानवर्गाः प्रशिक्षिताः आसन्l 
चित्रकारः - षिबुकुमारः


Thursday, March 26, 2020

कोरोण-रोगात् अतिजीवनं कृतवतां रक्तं रोगग्रस्थानां चिकित्सायै।
      वाषिङ्टण्>  कोरोणरोगग्रस्थानां चिकित्सायै रोगात् अतिजीवनं कृतवतां रक्तम् उपयोक्तुं यु एस् खाद्य एवम् औषधायोगेन अनुज्ञा प्रदास्यते। मङ्गलवारे अङ्गीकृते त्वरितप्रक्रमानुसारं रोगान्मुक्तानां 'प्लास्मा' इति रक्तांशानां सदुपयोगाय भिषग्भ्यः अनुज्ञा प्रदत्ता। 
कोरोणायाः आगामिनि प्रभवकेन्द्रं यूएस्  - विश्वस्वास्थ्यसंस्था। 
  वाषिङ्टण् >  कोरोणाविषाणोः आगामिनि प्रभवकेन्द्रं यू एस् भविष्यतीति विश्वस्वास्थ्यसंस्थायाः पूर्वसूचना। अमेरिक्कायां कोविड्-१९ रोगिणः वर्धमानाः सन्तीति कारणतः एवेदं निगमनमिति WHO इत्यस्य वक्त्री मार्गरट् हारिस् उक्तवती। 
  गते एकस्मिन् दिने ११,०७४ जनाः यू एस् मध्ये  विषाणुबाधिताः अभवन्। आहत्य रोगबाधिताः ५५,४१६ अभवन्। मरणानि तु ७८९। 
  किन्तु इतो यावत् यू एस् राष्ट्रे सम्पूर्णपिधानं (Lockdown) न प्रख्यापितम् इत्यनेन ट्रम्पस्य उपरि द्वेषरोषः वर्तते।

Wednesday, March 25, 2020

आभारतं सम्पूर्णं पिधानं ।
कोरोणायुद्धाय सामाजात् पृथक्त्वम् अनिवार्यमिति प्रधानमन्त्री।
प्रधानमन्त्री राष्ट्रमभिसंबुध्यति।  हस्तयोः 'को रो ना' इत्यस्य नूतनं व्याख्यानम्। "यः को$पि मार्गं न प्रविशतु " इत्यर्थः!
नवदिल्ली >  कोरोणाविषाणुं विरुध्य कठोरयुद्धाय भारतं सन्नद्धमस्ति। तदर्थं राष्ट्रस्य २१ दिनानां सम्पूर्णपिधानाय प्रधानमन्त्री नरेन्द्रमोदी आदेशं कृतवान्। ह्यः रात्रौ राष्ट्रम् अभिसम्बुध्य एव तेनेदमुद्घोषणं कृतम्। एप्रिल् १४ तमदिनाङ्कं यावत् पिधामनुवर्तिष्यते। 
   विषाणुं विरुध्य युद्धाय कुटुम्बवासः अनिवार्य इति प्रधानमन्त्रिणा उक्तम्। २१ दिनानि यावत् गृहान्तवासः न क्रियते चेत् २१ संवत्सराणां पश्चाद्गमनाय प्रेरयिष्यतीति सः अवदत्। "अतः साञ्जलिः अभ्यर्थये यत् २१ दिनानि यावत् गृहेभ्यः बहिर्गमनं मास्तु" नरेन्द्रमोदी एकैकान् भारतीयान् प्रावोचत्। 
  किन्तु अवश्यवस्तूनां दौर्लभ्यं न भवेत्। स्वास्थ्यमण्डलस्य आधारसौविध्यविकासाय १५,००० कोटिरूप्यकाणि अङ्गीकृतानि।

Tuesday, March 24, 2020

कोरोण विषाणु-व्यापनं गुरुतरम् - विश्व स्वास्थ्यसंस्थाI 
  जनीव> कोरोण विषाणु-व्यापनं गुरुतररूपेण परिवर्तितम्  इति विश्व स्वास्थ्यसंस्थया निवेद्यते। लक्षत्रयं घटनाः इतःपर्यन्तं व्यापकतया आवेदिताः इति कारणेन भवति विश्व स्वास्थ्य-संस्थायाः पूर्वसूचना-प्रसारणस्य कारणम्। पूर्वकालापेक्षया इदानीम् अतिवेगेन जनान् प्रति व्याप्यते विषाणुः इति विश्वस्वास्थ्य सङ्घटनस्य अध्यक्षः टेड्रोस् अदानं गेब्रेयससः उक्तवान्I राष्ट्राणि प्रतिरोधप्रक्रमाः शीघ्रं स्वीकरणीयानि इत्यपि सः उद्‌बोधितवान्।
कोरोणा आविश्वं व्याप्ता ; मरणानि लक्षत्रयमतीतानि।
प्रतिरोधे भारतस्य प्रयत्नं प्रशंस्य विश्वस्वास्थ्यसंस्था।  
कोच्ची >  विश्वस्य १९५ राष्ट्रेष्वपि कोरोणाविषाणुः व्याप्तमिति लोकारोग्यसंस्थया निगदितम्। इतःपर्यन्तं आविश्वं ३,८१,०००परं जनाः कोविड् बाधिता इति WHO संस्थया उक्तम्। १६,६२४ मरणानि अभवन्। 
 प्रायेण सर्वैरपि राष्ट्रैः सम्पूर्णं बन्धनं प्रख्यापितम्। ब्रिट्टने सप्ताहत्रयं यावत् पिधानं विहितम्। दक्षिणाफ्रिक्रायां २१ दिनानां पिहितम् उद्घुष्टम्। यू ए ई, सऊदि, दुबाय् इत्यादिषु अरब् राष्ट्रेष्वपि कर्फ्यू नामकगृहान्तवासः आदिष्टः। 
  बहुषु राष्ट्रेषु मृत्युसंख्या अनुदिनं वर्धते। इतःपर्यन्तं विविधेषु राष्ट्रेषु मरणसंख्या एवम् - इट्टली - ५४७८, स्पेयिन् - २८११, इरान् - १९१२, फ्रान्स् - ६७४, यू एस् - ४५८, जर्मनी - ११८ , चीना - ३२७०।
  भारते तु इतःपर्यन्तं दश जनाः एव मृत्युमुपगताः। भारतस्य कोरोणाप्रतिरोधप्रवर्तनानि अनुकरणीयानीति लोकारोग्यसंस्थया प्रशंसामवाप्तम्।
केरलं बन्धितं ; निश्चलम्। 
 कोच्ची >  कोरोणाविषाणुबाधाप्रतिरोधाय   केरलराज्यं अद्य आरभ्य बन्धितम्। ह्यः २८ जना अपि कोरोणग्रस्ताः इति दृढीकरणस्य आधारे अासीदयं निर्णयः।
 अवश्यसेवनानि विहाय सर्वे व्यवहाराः निरस्ताः। राज्यस्य सर्वाः सीमाः पिहिताः भविष्यन्ति। सामान्यगतागतसंविधानानि निरुद्धानि। किन्तु निजीयवाहनानां निरोधः नास्ति। अवश्यसामग्रीविपणनशालासु प्रभाते सप्तवादनादारभ्य सायं पञ्चवादनपर्यन्तं विपणनं शक्यते। आतुर-औषधालयाः, इन्धनशालाः , जलं, विद्युत्, भक्ष्यवस्तूनि, पाकेन्धनं,  इत्यादीनां सेवनानि उपलभ्यता च रोधं विना लप्स्यन्ते। मार्च् ३१ पर्यन्तमेवायं पिधानव्यवस्था।

Monday, March 23, 2020

कोरोण- इट्टलीराष्ट्रे मृताः 5476, यु एस् 100+‍ (24 होराभ्यन्तरे) 
    रोम्> कोरोणा विषाणुना ग्रसिताः 651 जनाः इट्टली राष्ट्रे मृताः। इतः पर्यन्तं मृतानां संख्या 5,476 इत्यभवत्। शनिवासरे 793 जनाः हताः रविवासरे मृतानां संख्या न्यूनीभूत्वा 651 इत्यभवत्। रोगनियन्त्रणाय यात्रा सर्वा रोधिता। इट्टलिसर्वकारेण  यु एस् सैनिकानां साहाय्यं प्रार्थितम् इति यु एस् प्रतिरोध सचिवेन मार्क्‌ एस्पेर् महोदयेन उक्तम्। मुखावरणं स्वसनसहाययन्त्रम् इत्यादि चिकित्सोपकरणानि च इट्टलिराष्ट्रेण अभ्यर्थितम् इत्यपि तेनाेक्तम्।
       यूरोप् भूखण्डेषु रोगग्रस्थानां संख्यायाम् द्वितीयस्थाने स्पेयिन् राष्ट्रं भवतिI 1700 जनाः मृताः इत्यस्मात्‌। त्वरितप्रकमाः एप्रिल् मासस्य ११ दिनाङ्कपर्यन्तं दीर्घितं  भविष्यति। इतः पर्यन्तम् आविश्वं 13,000 जनाः मृताः सन्ति। 
कोरोणाप्रतिरोधः - अत्यधिकनियन्त्रणम् अनुवर्तिष्यते।
९ राज्यानि पिहितानि। 
७५ जनपदाः पिधते , ३१ यावत् रेल् यानानि स्थगयितानि। 
नवदिल्ली >  महद्विजयमवाप्तस्य स्वयंकृतगृहान्तवासस्य अनन्तरं कोरोणाव्यापननिरोधाय अधिकनियन्त्रणानि भारतसर्वकारेण निर्दिष्टानि। कोविड् १९ रोगस्थिरीकृतान्  भारतस्य ७५ जनपदान् पिहितुं ,मेट्रो - सबर्बन् यात्रारेल् सेवनमभिव्याप्य सर्वं रेल्गतागतं स्थगयितुं च सर्वकारेण निर्णीतम्। 
  जार्खण्डः, बीहार्, जम्मुकाश्मीरं, अान्ध्रप्रदेशः, तेलङ्काना, दिल्ली, पञ्चाब्, राजस्थानं, नागालान्ड् इत्येतानि राज्यानि ३१ दिनाङ्कं यावत् पिहितानि। महाराष्ट्रे दिल्ल्यां च निरोधाज्ञा प्रख्यापिता। किन्तु पिधायमानेषु राज्येषु जनपदेषु च अवश्यवस्तूनां विपणन वितरणसेवनानि अनुमोदितानि।

Sunday, March 22, 2020

भारते स्वयंकृतगृहान्तवासः आरब्धः।
 वीथ्यः निश्चलाः, सामान्यगतागतानि स्तम्भितानि।
कोच्ची >  कोरोणानिर्व्यापनार्थं भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः जनताकर्फ्यू [स्वयंकृतगृहान्तवासः] इति आह्वानं सर्वे भारतीयाः शिरसा वहन्तः वर्तन्ते। सर्वे राज्यसर्वकाराः अपि पूर्णसहयोगितां प्रख्यापितवन्तः। अद्य प्रभाते सप्तवादनतः रात्रौ नववादनपर्यन्तमेव बहुजनानां बाह्यव्यवहारनिरोधः क्रियते। 
  आभारतं सर्वत्र आतुरशालाः, औषधशालाः इत्यादीनि अवश्यसेवनानि विहाय सर्वाणि सेवनानि स्थगितानि। राज्यानां सीमाः रोधिताः।
कोरोणविषाणुरोधनाय  सैनिकान् नियोक्तुम्  इट्टली आलोच्यते 
    रोम् > 24 होराभ्यन्तरे 739मरणानि आवेदितानि इत्यस्मात् नियन्त्रणानि सबलं कर्तुम् इट्टलिना निश्चितम्। विषाणुव्यापनस्य आवेदनानन्तरम्  एकस्मिन् राष्ट्रे अधिकाः जनाः अद्य एव मारिताः ।  लोंबार्डि मध्यतः  आसीत् इट्टलितः प्रथमं कोविड् -व्यापनावेदनम्। अत्र सहस्रसहस्राधिकाः जनाः रोगग्रस्थाः सन्तिI तेषां पालनाय स्वास्थ्य-मण्डलीयाः क्लेशम् अनुभवन्तः सन्ति इति अन्ताराष्ट्रमाध्यमैः आवेद्यते। रोगव्यापन-निरोधाय प्रख्यापितान् मार्गान्  अनुवर्तयितुं  ११४ सैनिकाः आहूतवन्तःI