केरलम्।
पिणरायि विजयः विपक्षनेता।
अनन्तपुरी> १६ तम केरल विधानसभा याद. विपक्षनेतृरूपेण भूतपूर्वः मुख्यमन्त्री सी पी एम् दलस्य वरिष्ठनेता च पिणरायि विजयः निश्चितः। सी पी एम् दलस्य राज्यसमितिमेलनाभ्यन्तरे आसीत् वि डि सतीशं मुख्यमन्त्रिरूपेण निश्चितं विज्ञापनं बहिरागतम्। अचिरेणैव दलस्य सचिवप्रमुखस्य एम् ए बेबिवर्यस्य नेतृत्वे राज्यसचिवमण्डलं मिलित्वा पिणरायि विजयं दलस्य सभानेतृरूपेण निश्चितः। ततः अयं निर्णयः राज्यसचिवः एम् वि गोविन्देन संस्थानसमित्यां प्रस्तुतवान्, समित्या अङ्गीकृतश्च।
