OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, May 10, 2020

जननी जन्मभूमिश्च स्वर्गादपि गरीयसीl 
विश्वमात्रे साष्टाङ्गप्रणामः
सान्स्ग्रीट् अनुप्रयोगः दैनिक-शुभ-सन्देशप्रेषणाय।
         अद्य विश्वमातृ दिनम्। केरलराज्यस्य दश संस्कृताध्यापकानां लैव् सान्स्क्रिट् (livesanskrit) नाम्नैकः संघो वर्तते | तेन संघेन निर्मितं आण्ड्रोयिड् अनुप्रयोगो (App) भवति सान्स्ग्रीट् (Sansgreet)। प्रत्येकं दिने तद्विशेषतामाश्रित्य सन्देशचित्राणि निर्मीयन्ते अनेन लैव् सान्स्क्रिट् संघेन । तच्चोपलभ्यन्ते sansgreet अनुप्रयोगे |  जीवन्ती विश्वभाषैव संस्कृतमिति सन्देशोत्पादनक्षमतास्ति एतेषां सन्देशचित्राणाम्। एतेषां चित्राणां  प्रभावेण जनानां मनसि संस्कृतं संस्कृतिं च प्रति समादरो जायते । सर्वविधेषु विशेषावसरेषु मित्रेभ्यः बन्धुभ्यः प्रणयिजनेभ्यः  गुरुजनेभ्यश्च  प्रेषणाय अस्मिन्ननुप्रयोगे विद्यमानानि आशंसापत्राणि बहूपकारकाणि हृदयाह्लादकारीणि चेति संस्कृतप्रेमिणः   वदन्ति। वाड्साप् मुखपुस्तिका प्रभृतिषु सामाजिकमाध्यमेषु  'सान्स्ग्रीट्' चित्राणि जनैः नितरां प्रेष्यन्त एव | प्लेस्टोर्-तः अस्यानुप्रयोगस्य अवारोपणं (download) कर्तुं शक्यते |I 
'वैट् हौस्'मध्ये कोविड् जाग्रता।
यू एस् उपराष्ट्रपतेः, ट्रम्प् पुत्र्याः साहाय्यिनां च रोगः।
वाषिङ्टण् > यू एस् राष्ट्रपतेः डोणाल्ड् ट्रम्पस्य पुत्री तथा वैट् हौस् [राष्ट्रपतिभवनं] उपदेष्ट्री इवान्का ट्रम्प् इत्यस्याः सहाय्यिनौ कोविड् रोगः स्थिरीकृतः। अनेन राष्ट्रपतिभवनीयाः स्थिरीकृतरोगिणः त्रयः अभवन्। यू एस् उपराष्ट्रपतिः मैक् पैन्स् नामकस्य माध्यमकार्यदर्शी कात्ती मिल्लर् इत्यस्मिन् शुक्रवासरे एव रोगः स्थिरीकृतः आसीत्। ट्रम्पस्य सहाय्यिषु अन्यतमे च गुरुवासरे रोगस्थिरीकरणमभवत्। 
  किन्तु इवान्का तस्याः पतिः जारेद् कुष्नेरः च गतदिने कोविड्परिशोधनं कृतवन्तौ। तयोः परिशोधनफलं अभाववदिति ज्ञातं च। ट्रम्पः अपि प्रतिदिनं परिशोधनाविधेयः सन्निति तेनोक्तम्। वैट्हौस् मध्ये प्रतिरोधप्रक्रमाः सुशक्ताः क्रियन्ते।
एष्या भूखण्डस्थानां राष्ट्राणां प्रशासनिक-भूमिशास्त्रविवरणानि चीनेन अपहृतानि।
         पारिस्>  विश्वराष्ट्राणां रहस्यानि  तन्त्रनियन्त्रक-चोरणद्वारा चीनेन स्वायत्तीकृतानि। फ्रान्स् राष्ट्रस्य सूचना-प्रौद्योगिकी विभागेन विवरणम् आवेदितम्।  चीनस्य सैनिकनियन्त्रणे विद्यमानेन तन्त्रनियन्त्रकचोरसङ्घेन नाय्कोण् इत्याख्येन योजनेऽयम्  आयोजिता। राष्ट्राणां भूमिशास्त्र-विवरणानि एव स्वायत्तीकृतानि। पारीस् देशं केन्द्रीकृत्य वर्तमानः एन्गाड्जेट्ट्  इति तात्रिक 'ब्लेग्' नियन्त्रकाः एव तात्रिकचोरणम् अधिकृत्य प्रत्यभिज्ञातवन्तः। एष्या राष्ट्राणां समग्रविवरणानि एवं चोरितानि इति भीतिदा घटना एव। वैदेशिकविवरणानि वैज्ञानिकीय विवरणानि, तन्त्रांशीय विवरणानि च अपहृतेषु सन्ति।
सर्वकारस्य साहाय्यं विना एककोटिरूप्यकाणि व्ययीकृत्य सेतुः निर्मितवन्तः भारतीय ग्रामीणाः।

      गुवाहटी> सर्वकारस्य साहाय्यं विना एककोटिरुप्यकाणि व्ययीकृत्य सेतुः निर्मितवन्तः असम राज्यस्य ग्रामीणाः। कामरूपजनपथे नागर्बेरग्रामवासिनः जलजाली नद्यः उपरि स्वीयं धनम् उपयुज्य काष्ठसेतुः निर्मितवन्तः।
     वर्षा काले नद्यः पारं गन्तुं ग्रामीणाः अतीव क्लेशम्  अनुभूतवन्तः आसन्। बालकान् विद्यालये प्रेषयितुं, रुग्णान् आतुरालयं प्रापयितुं च लघु नौकाः एव एतैः आश्रिताः आसन्। सेतोः आवश्यकताम् उक्त्वा निरन्तरम् अधिकारिणां पुरतः याचिताः किन्तु प्रक्रमाः न अभवन् । अन्ते ग्रामीणाः स्वीयं धनं व्ययीकृत्य सेतुं निर्मातुं निश्चितवन्तः अभवन् इति इन्त्याटुडे माध्यमेन  आवेदितम्।
     नागर्बेरेस्थेभ्यः दश ग्रामेभ्यः ७०००ग्रामवासिनः मिलित्वा एव सेतु निर्माणाय धनसमाहरणं कृतवन्तः। २०१८ वर्षे एव सेतोः निर्माणम् आरब्धम्। ग्रामीणानां ऐकमत्येन परिश्रमेण च वर्षद्वयाभ्यन्तरे सेतुनिर्माणं सम्पूर्णम् अभवत्। ३३५मीटर् दीर्घः भवति सेतुः। इदानीं वज्रलेपीय सेतुनिर्माणाय जनाः सर्वकारस्य पुरतः निवेदितवन्तः आसन् इति प्रदेशवासिनः अवदन्।
अन्तर्राज्यीयाः विमानसेवायै भारतं सज्जम् 
-पुरुषोत्तमशर्मा नवदेहली
      नागरिकोड्डयनमन्त्री हरदीपसिंह-पुरी प्रावोचत् यत् अन्तर्राज्यीय-विमान-सेवाः पुनरारब्धुं सज्जा विधीयते। एकस्यै प्रसारणवाहिन्यै प्रदत्त-साक्षात्कारे नागरिकोड्डयनमन्त्रिणा प्रोक्तं यत् नागरविमानमन्त्रालयः सामाजिकदूरीं निध्याय विमानयात्रायाः नियमेषु परिवर्तनं विधास्यति। सममेव विमानानां परिचालनसम्बद्ध-मानक-सञ्चालन-प्रक्रियायामपि परिवर्तनं विधास्यते।

Saturday, May 9, 2020

एष्या भूखण्डस्थानां राष्ट्राणां प्रशासनिक-भूमिशास्त्रविवरणानि चीनेन अपहृतानि।
         पारिस्>  विश्वराष्ट्राणां रहस्यानि  तन्त्रनियन्त्रक-चोरणद्वारा चीनेन स्वायत्तीकृतानि। फ्रान्स् राष्ट्रस्य सूचना-प्रौद्योगिकी विभागेन विवरणम् आवेदितम्।  चीनस्य सैनिकनियन्त्रणे विद्यमानेन तन्त्रनियन्त्रकचोरसङ्घेन नाय्कोण इत्याख्येन योजनेऽयम्  आयोजिता। राष्ट्राणां भूमिशास्त्र-विवरणानि एव स्वायत्तीकृतानि। पारीस् देशं केन्द्रीकृत्य वर्तमानः एन्गाड्जेट्ट्  इति तात्रिक 'ब्लेग्' नियन्त्रकाः एव तात्रिकचोरणम् अधिकृत्य प्रत्यभिज्ञातवन्तः। एष्या राष्ट्राणां समग्रविवरणानि एवं चोरितानि इति भीतिदा घटना एव। वैदेशिकविवरणानि वैज्ञानिकीय विवरणानि, तन्त्रांशीय विवरणानि च अपहृतेषु सन्ति।
भारते जूलैमासान्ते कोरोणव्यापनं रूक्षतां प्राप्स्यति -विश्व स्वास्थ्यसंस्था। 
 
     नवदहली> भारते सम्पूर्णपिधानस्य प्रतिग्रहणात्परं जूलैमासान्ते कोरोणव्यापनं रूक्षतां प्राप्स्यति इति विश्वस्वास्थ्यसंस्था। अग्रिममासेषु रोगिणां संख्या गण्यतया वर्धिष्यति इति संस्थया सूचितम्। किन्तु विषयेऽस्मिन् आशङ्का नावश्यकीत्यपि संस्थायाः कोविड्१९ वक्त्रा डा.डेविड्‌ नबारुणा सूचितम्। यतः समूर्णपिधानं प्रतिगृहीतं चेदपि इदानीं क्रियमाणैः प्रवर्तनैरेव रोगव्यापनस्य नियन्त्रणं साध्यमेवेति तेन अभिप्रेतम्। भारते रोगव्यापनस्य अनुपातः अधुना ११ दिनानि भवन्ति। भारते कोरोणरोगिणां संख्या अधिका चेदपि जनसख्यामाश्रित्य नियन्त्रणविधेया एव, मृतेषु वयोधिकानां संख्या अधिका, तथापि वयोविभागाः भिन्नाः इत्यतः मरणानुपातः नियन्त्रणविधेयः भवति-सः अवदत्। सम्पूर्णपिधानसहितानां जाग्रताप्रवर्तनानां यथासमयस्वीकरणेन रोगव्यापननियन्त्रणं भारतेन साधितम् इत्यपि तेन उक्तम्।
रेल्पथे निद्रां कुर्वन्तः १६ अध्यवसितकर्मचारिणः पण्ययानाघातेन हताः। 
मृत्युशय्या - दुरन्तस्थाने आरक्षकाः अन्वीक्षणं कुर्वन्ति। 
दु र्घटनेयं पिधानहेतुना वृत्तिविनष्टाः स्वराज्यं प्रति पदगमनवेलायाम्। 
 औरङ्गाबाद् > महाराष्ट्रस्य औरङ्गाबादसमीपे कर्माट् आरक्षकनिस्थानपरिधौ एवेयं दारूणदुर्घटना। पिधानहेतुना जीवनोपाधिविनष्टाः मध्यप्रदेशीयाः कर्मचारिणः परिवारसमेतं जन्मराज्यं प्रति रेल् यानमार्गेण पद्भ्यां गतवन्तः आसन्। यात्राक्लेशेन रेल्लोहमार्गे निद्रां कुर्वतां कर्मकराणामुपरि तैलेन्धनयुतं रेल् यानं विमर्दयति स्म। शनिवासरे उषसि ५.२२ वादने आसीद्दुर्घटना। 

 यात्रासंघे महिलाः बालकाश्चासन्। लोहपथात् दूरे शयितवन्तः त्रयः रक्षां प्राप्ताः। अन्ये सर्वे मृत्युमुपगताः। 

  राष्ट्रपतिः रामनाथकोविन्दः प्रधानमन्त्री नरेन्द्रमोदी च दुरन्ते अनुशोचनं प्रकाशितवन्तौ। मृतानां कर्मचारिणां बान्धवेभ्यः पञ्चलक्षं रूप्यकाणि निष्कृतिं दास्यतीति महाराष्ट्-मध्यप्रदेशशासनाभ्यां निगदितम्।

Friday, May 8, 2020

इस्रयेल् सख्यसर्वकाराय उच्चतरन्यायालयस्य अनुमतिः।
        जरुसलेम्> इस्रयेल् प्रधानमन्त्रिणः बेञ्चमिन् नेतन्याहोः राष्ट्रियप्रतियोगिना ब्लू आन्ट् वैट्संघनेत्रा बेन्नि गान्ट्सेन सह सख्याय तत्रस्थोच्चतरन्यायालयस्य अनुमतिः। एतयोः सख्यसर्वकारः अग्रिमसप्ताहे अधिकारं प्रविशति। कोविड् भीत्या कष्टतामनुभूयमाने अस्मिन् सन्दर्भे सामान्यनिर्वाचनं दुर्घटं स्यात् इत्यतः प्रमुखराष्ट्रियदलाभ्याम् एवं सख्यभरणाय निर्णयः स्वीकृतः। सर्वकारस्यास्य कालावधिः मासत्रयं वर्तते। परस्परधारणामनुसृत्य प्रथमं १८ मासात्मककालं नेतन्याहुः राष्ट्रभरणं निर्वहति, ततः बेन्नि गान्ट्स् च भरणं वहिष्यति।
कोविड् व्यापनम् - विश्वे भारतं चतुर्दशः स्थाने।
      नवदहली> भारते कोविड् रोगीणां संख्या पञ्चाशद्सहस्रं तथा मरणसंख्या उपद्विसहस्रं चाभवत्। तेन च रोगव्यापनं रूक्षतां प्राप्नानां राष्ट्राणां पट्टिकायां भारतमपि प्रविष्टम्। पट्टिकायां भारतस्य स्थानं चतुर्दश भवति। विश्वे २१२ राष्ट्रेष्वेव कोविड् रोगः व्यापृतः वर्तते। तेषु ४० राष्ट्रेषु रोगीणां संख्या दशसहस्राधिका भवति। तेष्वपि १५ राष्ट्रेषु रोगीणां संख्या पञ्चाशद्सहस्राधिका च भवति। एवंरीत्या रोगव्यापनम् आशङ्काञ्च जनयति।
लोकराष्ट्रेषु कोविड् प्रत्याघातः रूक्षः। 
अमेरिक्कायां वृत्तिरहिताः ३.३कोटिपरिमिताः।
 >  कोविड्रोगस्य आघाते लोकराष्ट्राणि विविधमण्डलेषु अतिक्लेशमनुभवन्ति। बहुषु राष्ट्रेषु रोगसंक्रमणम् अनियन्त्रितं वर्तते। लोके निखिले रोगबाधिताः ३८,५५,१४३ प्राप्ताः। मृत्युसंख्या २,६६,१९५ अभवत्। 
 अमेरिक्कायां कोविड् कारणेन वृत्तिविनष्टानां संख्या ३.३कोटिपरिमिता जाता इति राष्ट्रस्य उद्योगमन्त्रालयेन निगदितम्। किन्तु कोविड्प्रतिरोधाय रूपीकृतां कर्मसमितिम् अवसादयितुं डोणाल्ड् ट्रम्पः इच्छति। 
 ब्रिट्टने इतःपर्यन्तम् अनभिमुखीकृतं बृहत्तमः आर्थिकाभावक्लेशः अधुना अभिमुखीक्रियते इति 'बैंक् ओफ् इङ्लण्ट्' संस्थया उक्तम्। आर्थिकाभिवृद्धौ १४ %स्य न्यूनता संभवेदिति जाग्रतासूचनापि दत्ता। 
 रूस् राष्ट्रे प्रतिदिनं दशसहस्रं जनाः रोगबाधिताः भवन्ति। रुग्णाः १.७५ लक्षमतीताः। राजधान्यां मोस्कोनगर्यां पिधानं मेय् ३१पर्यन्तं दीर्घीकृतम्। १२ दिनाङ्कतः सामान्यगमनागमनसंविधानेषु मुखावरणमवश्यं कृतम्।  तत्रत्यः सांस्कृतिकमन्त्री अपि रोगबाधितः अभवत्। 
  जापानदेशे कोविड्रोगमुक्तये अनुकूलमिति विश्वस्यमानं 'रेम् डिसिवर्' नामकमौषधमङ्गीकृतम्। 
चीनायां वुहाने १२० सीनियर् सेक्कण्टरि विद्यालयाः उद्घाटिताः। गतमासस्य विदेशनिर्गमने ३.५%स्य वर्धनमभवत्। 
  फ्रांस राष्ट्रे नियन्त्रणेषु मेय् ११ आरभ्य भागिकतया शैथिल्यं करिष्यतीति प्रधानमन्त्रिणा एड्वेड् फिलिप्पेन सूचितम्।
  पाकिस्ताने नियन्त्रणेषु पदे पदे शैथिल्यम् अनुमोदयिष्यति। एतदाभ्यन्तरे यू ए ई तः प्रत्यागतेषु बहुषु कोविड्बाधा दृढीकृता। 
  स्वीडने मरणं त्रिसहस्रंमतीतम्। बुधवासरे ९९ जनाः मृताः। 
 पूर्वयूरोप्, आफ्रिक्का, दक्षिणपूर्वीय एष्या , पूर्वमेडिट्टरेनियप्रदेशाः, अमेरिक्का इत्येतेषु प्रान्तेषु रोगसंक्रमणं वर्धमानमस्तीति विश्वस्वास्थ्यसंघटनस्य निदेशकप्रमुखेन निगदितम्। किन्तु पश्चिमयूरोपे व्यापनं न्यूनमस्ति।

Thursday, May 7, 2020

प्रवासिनः केरलं प्राप्ताः।
कोच्ची > अबुदाबी, दुबाय् राष्ट्राभ्यां प्रवासिजनान् वहत् विमानद्वयं केरलं प्राप्तम्। प्रथमपादे ३५४ यात्रिकाः स्वराज्यं प्रत्यागताः। 
  अबुदाबीतः १७७ यात्रिकान् वहत् प्रथमं विमानं रात्रौ १०.०८ वादने कोच्ची अन्ताराष्ट्रविमाननिलयं प्राप्तम्। तस्मिन् ४९ गर्भवत्यः तथा चत्वारः बालकाश्च अन्तर्भवन्ति। 
  द्वितीयं विमानं दुबाय् तः १०. ३३ वादने कोष़िक्कोट् विमाननिलयं प्राप्तम्। तीव्रं सुरक्षामानदण्डं परिपाल्य एव यात्रिकाणां स्वीकरणं विधत्तम्।
कोविडं विरुध्य प्रतिरक्षा उत्तेजकं (Antibody) परिपोषितमिति इस्रयेलः। 
 जरुसलेम् >  'नोवल् कोरोणा' नामकं विषाणुं प्रतिरुध्यमानं प्रतिरक्षाउत्तेजकं (Antibody) परिपोषितमिति इस्रयेलराष्ट्रेण उपपादितम्। Israel Institute for Biological Research नामकसंस्थायाः शास्त्रज्ञाः एव अस्योद्यमस्य पृष्ठभूमौ इति तद्राष्ट्रस्य रक्षामन्त्रिणा नफ्ताली बन्नट् इत्यनेन निगदितम्। उत्तेजकस्य परिपोषकसोपानानि सम्पूर्णानि अभवन् , विशिष्टाधिकारपत्राय [Patent] उत्पादनाय च अनुज्ञां लब्धुं प्रयतते इति तेनोक्तम्। 
  कोविड् विषाणोः जैवसंरचनं प्रवर्तनादिकं च I I B R शास्त्रज्ञैः प्रत्यभिज्ञातं , एनं विरुध्य प्रतिरक्षा उत्तेजकं पोषयितुं एतत् सहायकं भविष्यतीति मार्च् मासे 'हारटस्' नामकेन इस्रयेलियमाध्यमेन निवेदितमासीत्।
विशाखपट्टणे विषवातकदुरन्तः - सप्त जनाः मृताः।

     विशाखपट्टणम् > आन्ध्राप्रदेशस्य विशाखपट्टणे पोलिमर्यन्त्रागारतः विषवातकव्यापनेन महान् दुरन्तः सञ्जातः। अद्य प्रातः चतुर्वादने एव विषवातकव्यापनं सम्बन्ध्य सूचना लब्धा वर्तते। दुरन्ते एतावता सप्त जनाः मृताः वर्तन्ते। पञ्चाशतधिकाः जनाः गुरुतरावस्थायाम् आतुरालयेषु वर्तन्ते। अतः मरणसंख्या इतोऽपि वर्धयिष्यति इत्यपि सूचनास्ति। सुरक्षाक्रमीकरणस्य भागतया अधिकारिणः दुरन्तप्रदेशं परितः विद्यमानेभ्यः २० ग्रामेभ्यः जनान् निष्कासयन्तः वर्तन्ते। ५ कि.मी. अधिकेषु प्रदेशेषु विषवातकं व्यापृतं भवति।
कोराणरोगाणवः आतङ्कवादिनः  च भारतेन पराजिताः - उपराष्ट्रपतिः एम् वेङ्कय्यनायिडुः।
            नवदहली> अतीव विनाशकारिणः कोराणरोगाणवः तथा आतङ्कवादिनः च भारतस्य आत्मविश्वासस्य परिश्रमस्य च पुरतः पराजिताः इति उपराष्ट्रपतिना एम् वेङ्कय्यनायिडुमहोदयेन अभिप्रेतम्। कोरोणरोगाणोः सामूहिकव्यापनम् इति दुर्घटावस्थायामस्यां भारतम् आक्रमितुम् उद्युक्ताः आतङ्कवादिनः तस्मिन् श्रमे पराजिताः इति तेन उक्तम्। आतङ्कवादिनः प्रोत्साहयितुं पाकिस्थानेन सामूहिकमाध्यमानां दुरुपयोगः व्यापकतया क्रियते इति उपराष्ट्रपतिना सूचितम्। जम्मुकाश्मीरे प्रवृत्तम् आतङ्कवादाक्रमणं परामृश्य भाषमाणः आसीत् सः। आतङ्कवादप्रवर्तनानि विश्वे सर्वत्र आशङ्कां भीतिं च जनयन्ति, अस्य प्रतिरोधाय  जनाः सामुदायिकतर्कान् परित्यज्य एकमनसा भवन्तु इत्यपि महोदयेन अभिप्रेतम्।
भारते सामान्यगमनागमनसुविधा अचिरादेव पुनरारभ्यते - केन्द्रमन्त्री नितिन् गड्करिः।
चित्रं- इन्ट्यन् एक्स्प्रस् द्वारा
   नवदहली> भारतराष्ट्रे सामान्यगमनागमनसुविधा अचिरादेव पुनरारभ्यते इति केन्द्र-सामान्य-गमनागमन-विभागमन्त्री नितिन् गड्करिः न्यवेदयत्। एतदर्थं आवश्यकान् निर्देशान् अन्तर्भाव्य  विज्ञापनं करिष्यतीति मन्त्री असूचयत्। इतःपरं सामूहिकतया परस्परं दूरं परिपाल्य एव यात्रादिकं करणीयम् इत्यपि सः अवदत्। सामान्यगमनागमनसुविधायाः  तथा देशीयमार्गाणां च पुनरारम्भः जनेषु आत्मविश्वासं वर्धयिष्यति इति सः अवदत्। राष्ट्रस्य वाहनप्रचालकसमित्या सह सामूहिकमाध्यमद्वारा कृते मेलने भाषयन्नासीत् सः।

Wednesday, May 6, 2020

सम्पूर्णपिधानकालम् उपयुज्य भारतीयरेल्विभागः। 
     नवदहली> मार्च्२४ तः आरब्धस्य सम्पूर्णपिधानकालस्य सदुपयोगं कृत्वा भारतीयरेल्विभागः। कालेऽस्मिन् विभागेन १९२४८८ कि.मि. रेल्मार्गाणां पुनर्निर्माणं कृतं वर्तते। अन्यत् यात्रासेवनं किमपि नास्तीत्यतः निर्माणादिकं सुकरं चाभवत्। 'ओसिलेषन् मोणिटरिङ्' संविधानस्य साहाय्येन रेल्मार्गाणां स्थितिं परीक्ष्य एव आवश्यकं निर्माणादिकं कृतं भवति। एवमेव तेलङ्कानस्य कासिपेट् ,आन्ध्राप्रदेशस्य विजयवाड, कर्णाटकस्य बाङ्‌गुलुरु सिटि, गुजरातस्य बरोड इत्यादीनां रेल्सङ्केतानां नवीकरणप्रवर्तनान्यपि कालेऽस्मिन् निर्वोढुं शक्तानि सन्ति ।
पिधानं ४० दिनानि अतीतान्यपि रोगसङ्क्रमणस्य वर्धनम् आशङ्कायते। 
 नवदिल्ली >  भारते सम्पूर्णं पिधानं चत्वारिंशद्दिनानि अतीतान्यपि राष्ट्रस्य विविधेषु प्रान्तेषु कोविड्रोगसंक्रमणं तीव्रतया वर्धते इति आशङ्कां जनयति। रोगबाधितानां संख्या ४६,०००अतीता। मृत्युसंख्या अपि शीघ्रं वर्धते। महाराष्ट्रं, गुजरात्, तमिल्नाट् , दिल्ली इत्यादिषु राज्येषु रोगः नियन्त्रणातीतः वर्तते। 
  महाराष्ट्रे गतदिने ८४१ जनानां रोगबाधा दृढीकृता। अनेन रुग्णानां संख्या १५,००० अतीता। धारावी, मुम्बई इत्यादिषु प्रान्तेषु पिधाने तीव्रं नियन्त्रणं विधत्तम्। मुम्बय्यां १४५९ तीव्रव्यापनमण्डलानि सन्ति।  राज्ये १४ जनपदानि रक्तमण्डलानि विहितानि। 
  गुजरात राज्ये रुग्णानां तथा मरणानां संख्या मङ्गलवासरे उच्चस्थितिं प्राप्ता। ४४१ नूतनाः रोगिणः, ४९ मरणानि च अभवन्। 
  दिल्ल्यां गतदिने २०६ जनाः कोविड्बाधिताः जाताः। रुग्णसंख्या कृत्स्नं ५१०० अतीता। ६४ जनाः मृताः। 
  तमिल्नाटे दिनद्वयं यावत् रोगबाधिताः प्रतिदिनं ५०० इति क्रमेण वर्तन्ते। चेन्नैनगरं रोगव्यापनस्य केन्द्ररूपेण वर्तते। राज्ये निखिलं ४०५८ रोगबाधितेषु २००८ परिमितं चेन्नै प्रान्ते एवास्ति।

आरोग्यसेतु आप्‌ सुरक्षितम् - केन्द्रसर्वकारः।
    नवदहली> आरोग्यसेतु आप्‌ सुरक्षितम् इति केन्द्रसर्वकाराय नियममन्त्री रविशङ्करप्रसादेन उक्तम्। आप् तः व्यक्तीनां निजीयांशाः न अपहृताः इति तेन सूचितम्। प्रत्येकं व्यक्तिम् प्रत्यभिज्ञातुम् आरोग्यसेतु आप्‌ संविधानम् अपर्याप्तम् भवतीति तेन उक्तम्। कोविड् प्रतिसन्धेः तरणायैव संविधानस्यास्य उपयोगः सर्वकारेण प्रेरितः भवति, संविधानमिदं शाश्वतं न भवति - मन्त्रिणा सूचितम्‌। वैय्यक्तिकांशाः अपह्रियन्ते इति भीतिः मा भवतु इत्यपि तेन निवेदितम्। राष्ट्रे सर्वकारकर्मकरैः आरोग्यसेतु आप्‌  उपयोक्तव्यम् इति केन्द्रसर्वकारेण निर्बन्धरूपेण निवेदितमासीत्। किन्तु, संविधानेऽस्मिन् व्यक्तीनां निजीयांशानां सुरक्षाविषये न्यूनताः सन्तीति प्रतिपक्षनेतृभिः तत्तत्वनिपुणैः च आरोपितञ्च। अत एव केन्द्रसर्वकारपक्षतः आप् विषये विशदीकरणं दत्तं वर्तते।
केन्द्रसर्वकारस्य जन औषधिकेन्द्राणि प्रतिगृहम् औषधलभ्यतायै प्रवर्तन्ते- प्रधानमन्त्री

  नवदहली> सम्पूर्णपिधानवेलायामस्याम् अवश्यौषधानां लभ्यतायै प्रधानमन्त्री भारतीय जनौषधिपरियोजनकेन्द्राणि प्रवर्तन्ते। एतदर्थम्‌ उपभोक्तृणां कल्पनाः वाट्साप्, इ मेयिल् इत्यादिसामूहिकमाध्यमद्वारा स्वीक्रियन्ते। एवम् उपभोक्तृभिः समर्प्यमाणानां औषधनिश्चयपत्राण्यनुसृत्य  प्रतिगृहं औषधवितरणं करिष्यन्ति च। अधुना कानिचन जनौषधिकेन्द्राणि सामूहिकमाध्यमद्वारा कल्पनां स्वीकृत्य सेवां कुर्वन्ति च। अस्य संविधानस्य विपुलीकरणम् अवश्यं करिष्यतीति केन्द्रमन्त्री डि वि सदानन्दगौडमहोदयः न्यवेदयत्। ग्रामप्रदेशानाम् अन्ततो गत्वा सेवनाय पत्रालयविभागस्य साहाय्यमपि स्वीक्रियते। सम्पूर्णपिधानवेलायाम् औषधवितरणभङ्गः मा भवतु इति धिया १७८ विधानाम् अवश्यौषधानां लभ्यतायै १८२ कोटिरुप्यकाणां कल्पना मन्त्रालयद्वारा दत्ता वर्तते। एवं 'जनौषधि सुगम्' नामकम् आप्‌ अपि सेवनं लब्धुम् उपयोक्तुं शक्यते।

Tuesday, May 5, 2020

कोविड्रोगाणोः प्रसरणशक्ते: शमनं प्राप्नोति - राष्ट्राणि समाश्वासमार्गे।
         नवदहली> २०२० वर्षस्य जनुवरि मासादारभ्य आरब्‍धा कोविड्भीतिः सावधानतया शमनं प्राप्नोति। कोविड्रोगाणोः प्रसरणशक्तिः शाम्यति इति विविधानां विश्वराष्ट्राणाम् अधुनातनस्थितिम् आधारीकृत्य विश्ववार्तामाध्यमाः सूचयन्ति। द्विलक्षाधिकानां जनानां मरणाय कारणस्य कोरोणरोगाणोः सामाजिकव्यापनं फेब्रुवरि-मार्चमासयोः अधिकमासीत्। किन्तु, अधुना तादृशं रोगव्यापनं न दृश्यते इति विविधानां राष्ट्राणां रोगिणां संख्या सूचयति। सम्पूर्णपिधानसहितानां नियन्त्रणानां फलप्रदरीत्‍या संयोजनं तथा निरीक्षण-परीक्षणादिकं च रोगाणोः सामाजिकव्यापनं प्रतिरोद्धुम् उपकारकम् अभवत्। अमेरिकदेशस्य स्थिति: निराशाप्रदायिका चेदपि एष्यस्य यूरोपस्य च स्थितिः समीचीना एव। अत एव यूरोपीयराष्ट्रेषु सम्पद्व्यवस्थायाः पुनरुज्जीवनप्रवर्तनानि आरब्धानि च। बहुत्र अतीवसुरक्षाकार्यक्रमैः सह यन्त्रागारकेन्द्राणि, वाणिज्यकेन्द्राणि, भोजनालयाः, पुस्तकालयाः च प्रवर्तन्ते। शैक्षिकस्थापनानां प्रवर्तनं भागिकतयैव आरब्धं दृश्यते। बहिर्गमनवेलायां मुखावरणधारणम् अवश्यं करणीयं भवति। भारते अपि सम्पूर्णपिधानं तृतीयस्तरं प्रविष्टं चेदपि आनुकूल्यादिकं दत्तं वर्तते च। तथापि सम्पूर्णपिधाननियन्त्रणेषु आनुकूल्यादिकं विचिन्त्य एव दातव्यम् इति विशारदाः अभिप्रयन्ति च।

Monday, May 4, 2020

 विद्यालयछात्रेभ्यः अन्तर्जालीयकक्ष्या समारभ्यते।

     कालटी> सम्प्रतिवार्तया विद्यालयछात्राणां कृते अन्तर्जाल-माध्यमद्वारा अध्ययनं समारभ्यते। कोविड्१९ वैराणुव्यापनेन  विद्यालयानाम् उद्घाघाटनं विलम्बेन स्यात् इति चिन्तायां भवति  इयं  विचिन्तनं इति सम्प्रतिवार्तपत्रिकया आवेद्यते। एतदर्थं यूट्यूब्  माध्यमेन  नवीना वाहिनी आरप्स्यते  अन्तर्जलप्रसारणम् अपि भविष्यति। केरल-सर्वकारस्य पाठ्य-प्रणालीम् अनुसृत्य कक्ष्याचालनाय अध्यापकाः नियुक्ताः। सि बि एस् सि पाठ्यप्रणालीम् अनुसृत्य अपि भविष्यति।

   मेय् मासस्य सप्तम दिनाङ्के गूगिल् मीट् सुविधा द्वारा प्रशिक्षकानाम् अन्तर्जाल-संगोष्ठी# (online seminar) निश्चिता अस्ति। विशेषज्ञाः तन्त्रज्ञाः च अस्मिन् भागभाजः भविष्यन्ति।

विश्वारोग्यसंस्थायाः औषधपरीक्षणे भारतस्यापि योगदानम्।
      नवदहली> कोविड्१९ प्रतिरोधाय नूतनौषधपरीक्षणं प्रति भारतमपि प्रविशति। विश्वारोग्यसंस्थायाः नेतृत्वे सज्जीक्रियमाणे औषधपरीक्षणे भारतमपि भागभाक् भविष्यतीति केन्द्र-स्वास्थ्यमन्त्री डा.हर्षवर्धनः न्यवेदयत्। 'सोलिडारिट्टि' इति नाम्ना क्रियमाणे औषधपरीक्षणे रेम्टेसिविर् नामकम् औपधं राष्ट्रस्य विविधेषु मण्डलेषु कोविड् रोगिषु परीक्ष्यते इति हर्षवर्धनः न्यवेदयत्। एतदर्थम् औषधस्य १००० मात्रा सज्जीकृतं वर्तते। परीक्षणं सम्बन्ध्य उन्नतस्तरे चर्चाः कियमाणाः सन्ति। ऐ सि एम् आर्, सि एस् ऐ आर् संस्थयोः वैज्ञानिकैः विषयोऽयं निरीक्ष्यते च। अमेरिकदेशे कोविड् रोगिषु रेम्टेसिविर् औषधस्य प्रयोगेन ३१% वेगेन रोगमुक्तिः सञ्जाता च। कोविड्१९ रोगमुक्तये आवश्यकान् कालान् न्यूनीकर्तुम् औषधोऽयम् उपकारकं भवतीति 'सोलिडारिट्टि' नामकः औषधपरीक्षणसङ्घः प्रमाणीकरोति। सङ्घेऽस्मिन् शताधिकानि राष्ट्राणि भागभाक्त्वं वहन्ति। मनुष्यशरीरेषु प्रविश्यमाणस्य कोरोणरोगाण्वोः स्वयपरिवर्तनशेषिं रेम्टेसिविर् औषधं नाशयतीति वैज्ञानिकाः अभिप्रयन्ति।

कुल्भूषण् यादवस्य मोचनं साध्यम् - हरीष् साल्वे।

       नवदहली> पाकिस्थानस्थस्य सैनिकन्यायालयस्य वधदण्डननिर्णयेन बन्धनस्थस्य कुल्भूषण् यादवस्य मोचनाय नयतन्त्रसाहाय्यं लब्धुं भारतेन अन्ताराष्ट्रन्यायालयः प्रापणीयः इति प्रमुखः अभिभाषकः हीरष्‌ साल्वे अवदत्। एकस्मै देशीयवार्तामाध्यमाय दत्तायां अभिमुखवेलायां भाषयन्नासीत् हरीष्‌ साल्वे। कुल्भूषण् यादवाय नयतन्त्रसाहाय्यं दातव्यमिति निर्देशः २०१९ तमे वर्षे लब्धः वर्तते, किन्तु निर्देशोऽयं  पाकिस्थानेन न पाल्यतेति सः अवदत्। अतः तस्य मोचनाय भारतेन अन्ताराष्ट्रन्यायालयः एव प्राप्तव्यः इति साल्वे असूचयत्। कुल्भूषणस्य मोचनाय भारतेन २३ आवेदनानि पाकिस्थानं प्रति समर्पितानि सन्ति। किन्तु कदापि एकं  प्रतिकरणमपि पाकिस्थानपक्षतः नाभवत् - सः असूचयत्। कुल्भूषणः स्वयमेव अपराधवहनं अकरोत् इत्येव पाकिस्थानस्य विशदीकरणं, किन्तु एतदर्थं किमपि निदानं न समर्पितं च, साल्वे अभिप्रयत्। एतत् पाकिस्थानेन क्रियमाणं मानवाधिकारलङ्घनमेव भवतीत्यपि हरीष् साल्वे अवदत्। कुल्भूषणस्य मोचनम् अन्ताराष्ट्रन्यायालयस्य साहाय्येन सुसाध्यमेव इति प्रतीक्षामपि सः प्राकटयत्।